________________
१५६
कल्याणमन्दिरस्तोत्रम् आनश्प्रत्यये मागमे च अमोऽकारलोपे अनु(स्वारे कृते) पोतायमानमिति सिद्धम् । अभिपूर्वो णमधातुस्तदने क्त्वाप्रत्ययः 'पाठे धात्वादेो नः' (सिद्ध० २-३-९७) इति णस्य नकारस्तदनु 'अनञः क्त्वो यप्' (सिद्ध०३-२-१५४) इति सूत्रेण यबादेशः, 'अव्ययस्य' (सिद्ध० ३-२-७) इति सूत्रेण सिलोपे अभिनम्येति सिद्धम् । सुराणां गुरुः सुरगुरुः । विपूर्वो भूधातुः, विभवतीति विभुः, डुप्रत्यये ऊकारलोपे सौ च विभुः इति सिद्धम् । विधानाय विधातुं विपूर्वो धाधातुः, तुम्प्रत्ययः, 'अव्ययस्य' सिलोपः विधातुमिति सिद्धम् । तीर्थस्य ईश्वरः तीर्थेश्वरः तस्य । 'डुकंग करणे' (सिद्ध० धातुपाठे) कृधातुः 'भविष्यन्ती स्ये' (सिद्ध० ३-३-१५) इटि गुणे षत्वे (च) करिष्ये इति सिद्धम् । आत्मगामिफलत्वात् इत्यत्र आत्मनेपदम् । ननु यदि सुरगुरुः स्तोत्रं विधातुं न विभुस्तदाऽहं करिष्ये इति कथं घटते ? तत्रोच्यते-सामस्त्येन प्रभोर्गुणान् सुरगुरुरपि स्तोतुं न समर्थः स्यात् , तेन भक्तिप्रेरितमना एकांशेन गुणस्तवनं करिष्ये इति भावः । अत्र विषये अन्योऽपि भावः कविभिः स्वयमूह्यः, यतो नानामतयः कवयः । इति काव्ययुग्मार्थः ॥ १-२॥
The poct declares his intention of praising Lord Pārs'vanatha:--
Having bowed to the lotus-feet of that Jines'vara ( Tirtharkara, Lord Pārs'vanātha ), who is the ocean of greatness, whom (even the preceptor of gods (Brihaspati ) himself in spite of his supremely wide knowledge is unable to praise and who is a comet ( or fire ) in destroying the arrogance of Kamatha--the feet which are the temple of bliss, which are sublime, which can destroy sins and
ve safety to the terrified, which are fault-less and are (i.e., serve the purpose of ) a life-boat for all beings sinking in the ocean of existence, I will indeed compose a hymn (in honour) of Him. (1-2)
अथ द्वितीयवृत्तप्रान्तपादगतकिलशब्दोदितालीकमेव विशेषत उद्भावयति
सामान्यतोऽपि तव वर्णयितुं स्वरूप__ मस्मादृशाः कथमधीश ! भवन्त्यधीशाः ? । धृष्टोऽपि कौशिकशिशुर्यदिवा दिवाऽन्धो
रूपं प्ररूपयति किं किल धर्मरश्मेः ? ॥३॥ क० वृ०-हे 'अधीश'! अस्मादृशास्तव स्वरूपं सामान्यतोऽपि वर्णयितुं कथमधीशा भवन्ति ? अपि तु न भवन्ति । कत्रुक्तिः। अधिकश्चासावीशश्चाधीशस्तस्य सम्बोधनं हे अधीश ! 'कर्मधारयः' । हे देवाधिदेव ! अस्मादृशा-अस्मद्विधा वयमिव दृश्यन्ते इत्यस्मादृशा मन्दमतयो जनास्तवेति भवतः स्वरूपं-लक्षणं सामान्यतोऽपि-निर्विशेषमपि वर्णयितुंप्रतिपादयितुं कथमधीशाः-समर्था भवन्ति । अत्र दृष्टान्तमाह-यदिवेति दृष्टान्तोपद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org