________________
१५५
श्रीसिद्धसेनदिवाकरकृतम् 'कल्याणमन्दिर'स्तोत्र-विवृतिं शिशुबोधिनीम् ।
कुर्वे वाक्योक्तिसंयुक्तां, समासकृतविस्तराम् ॥ २॥-युग्मम् कल्याणेति (यस्येति)। अहं एषः-सिद्धसेनः कविस्तस्य तीर्थेश्वरस्य किल इति सत्ये संस्तवनं करिष्ये । 'करिष्ये' इति क्रियापदम् । कः कर्ता? 'अहम्' । अहं कः? 'एषः' प्रत्यक्षतया दृश्यमानः । कस्य ? 'तीर्थेश्वरस्य' । तीर्थेश्वरस्य कस्य ? 'तस्य' । कथम्भूतस्य ? 'कमठस्मयधूमकेतोः' कमठस्य स्मयः-अहङ्कारस्तत्र धूमकेतु:-अग्निरिव अथवा धूमकेतुरष्टाशीतिग्रहाणां मध्ये ग्रहोऽस्ति स उदितस्तस्यां दिशि सर्वनाशकरो भवति तेन कमठस्मये धूमकेतुग्रह इव, स ग्रहः पुच्छेन आकाशे लक्ष्यते कदाचिदुदेत्यपि, तस्य कमठस्मयधूमकेतोः। अनेन विशेषणेन श्रीपार्श्वनाथस्यैव स्तोत्रं करिष्ये इत्यागतम्, 'समर्थविशेषणाद् विशेष्यं लभ्यते' इति न्यायात् । किं कृत्वा ? 'अभिनम्य' । किं कर्मतापन्नम् ? 'अंहिपगं' चरणकमलम् । कस्य ? 'जिनेश्वरस्य' तीर्थङ्करस्य । किम्भूतम् ? 'कल्याणमन्दिरं' मङ्गलनिलयम् । पुनः किम्भूतम् ? 'उदारं' स्फारम् । पुनः किम्भूतम् ? 'अवद्यभेदि' अवयं-पापं भिनत्ती. त्येवंशीलं अवद्यभेदि । भिद्धातोरिन्प्रत्यये अम्लोपे नलोपे च सिद्धम् । पुनः किम्भूतम् ? 'भीताभयप्रदं' भीतानां-भयत्रस्तानां प्राणिनाम् अभयं प्रददातीति भीताभयप्रदम् । प्रोपसर्गात् दाधातोर्डप्रत्यये आलोपे च संहितायां अकारलोपे अनुस्वारे कृते भीताभयप्रदमिति सिद्धम् । पुनः किम्भूतम् ? 'अनिन्दितं' न निन्दितं अनिन्दितम् , अगर्हितमित्यर्थः । पुनः किम्भूतम् ? 'संसारसागरनिमजदशेपजन्तुपोतायमान' संसार एव सागरस्तत्र निमज्जन्तो-ब्रुडन्तोऽशेषाः-समस्ता ये जन्तवः-प्राणिनस्तेषां पोत इवाचरत्बोहित्थमिवाचरत् । यत्तदोर्नित्याभिसम्बन्धात् तस्य कस्य? यस्य सुरगुरुः-बृहस्पतिः स्वयं स्तोत्रं विधातुं-कर्तुं न विभुः-न समर्थो वर्तते । 'वर्तते' इति क्रियापदम् । कः कर्ता? 'सुरगुरुः' । किंलक्षणः? 'विभुः । कथम् ? 'न' । किं कर्तुम् ? 'विधातुम्' । किं कर्मतापनम् ? 'स्तोत्रम्' । कथम् ? 'स्वयम्' आत्मना । कस्य ? 'यस्य' । यस्य कथम्भूतस्य ? 'गरिमाम्बुराशेः' गुरोर्भावो गरिमा, गरिम्णः-महत्त्वस्य अम्बुराशिरिव गरिमाम्बुराशिस्तस्य । सुरगुरुः किंलक्षणः? 'सुविस्तृतमतिः' सुविस्तृता मतिर्यस्य सः॥
कल्याणानां मन्दिरं कल्याणमन्दिरं तत् कल्याणमन्दिरम् । (अवद्यानां भेदि अवद्य० तत् अवद्य०)। अभयं प्रददातीत्यभयप्रदं, भीतानां अभयप्रदं भीताभयप्रदं तत् । न निन्दितं अनिन्दितं तत् । अंहिरेव पद्मं अंहिपमं तत् । संसार एव सागरः संसारसागरः, अशेषाश्च ते जन्तवश्च अशेषजन्तवः, निमज्जन्तश्च ते अशेषजन्तवः निमजदशेषजन्तवः, संसारसागरे निमजदशेषजन्तवः संसारसागरनिमजदशेषजन्तवः, संसारसागरनिमजदशेषजन्तूनां पोतायमानं संसारसागरनिमजदशेषजन्तुपोतायमानम् । पोत इवाचरतीति पोतायते, पोतायते इति पोतायमानं, पोतशब्दात् पर आचारार्थे क्यङ्प्रत्ययः । 'दीर्घश्वियड्यक्क्ये षु च' (सिद्धहेमे अ० ४, पा० ३, सू० १०८) इति सूत्रेण दीर्धीकृते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org