________________
१५४
कल्याणमन्दिरस्तोत्रम्
अभिनमनं पूर्वमभिनय 'तत्पुरुषः (१) । किं कर्मतापन्नम् ? 'हिप' पदकमलम् । अंही एव पद्मं अंह्निपद्मं तत् 'कर्मधारयः । पद्मशब्दः पुंनपुंसकः, पुनर्द्वितीयाज्ञापनाय तदिति । कस्य ? 'जिनेश्वरस्य' रागादिशत्रूणां जेतृत्वाज्जिनाः - सामान्यकेवलिनस्तेषां ईश्वरः - प्रभुः, जिनानामीश्वरो जिनेश्वरस्तस्य जिने० ' तत्पुरुषः' । अंहिपद्मं किंलक्षणम् ? 'कल्याणमन्दिरं' श्रेयोगृहम् । कल्याणानां मन्दिरं कल्याणमन्दिरं तत् 'तत्पुरुषः' । पुनः किंलक्षणमंहिपद्मम् ? 'उदारं ' भव्यानां मनोऽभीष्टदानाद् दातारं प्रशस्तं वा । पुनः किंलक्षणमंहिपद्मम् ? 'अवद्यभेदि ' अवद्यं - पापं भिनत्तीत्येवं शीलं अवद्यभेदि तत् ' तत्पुरुषः' । पुनः किंलक्षणमंहिपद्मम् ? 'भीताभयप्रदं' भीतानां - जन्मजरामरणादिदुः ख ब हुलसंसारशत्रोर्भयं प्राप्तानां भव्यानां षड्जीवनिकायरक्षणपालनोपदेशदानादभयं प्रददातीत्येवंशीलं अभयप्रदं 'तत्पुरुषः', भीतानामभयप्रदं भीता० 'तत्पुरुषः' । पुनः किंलक्षणमंहिपद्मम् ? 'अनिन्दितं' अणुमात्रस्यापि दोषस्याभावादनिन्दनीयं, सर्वदोषरहितमित्यर्थः । न निन्दितं अनिन्दितं ' तत्पुरुषः ' । अहिपद्मं किं क्रियमाणम् ? 'संसारसागरनिमज्जदशेषजन्तुपोतायमानं' संसारसागरे - भवसमुद्रे निमज्जतां - बुडतां अशेषाणां सर्वेषां जन्तूनां समुद्धरणात् पोतायमानं - पोतवदाचरत् पोतायमानं, नौतुल्यमित्यर्थः । अशेषाश्च ते जन्तवश्च अशेषजन्तवः 'कर्मधारयः', निमज्जन्तश्च ते अशेषजन्तवश्च निमज्जदशेषजन्तवः 'कर्मधारयः', संसार एव सागरः संसारसा - गरः 'कर्मधारयः', संसारसागरे निमज्जदशेषजन्तवः संसारसागरनिमज्जदशेषजन्तवः 'तत्पुरुषः', पोत इवाचरतीति पोतायते, पोतायत इति पोतायमानं, संसारसागरनिमज्जदशेषजन्तुषु संसारसागरनिमज्जदशेषजन्तूनां वा पोतायमानं संसारसागरनिमज्जदशेषजन्तु - पोतायमानं ' तत्पुरुषः' । एवंविधमंहिपद्ममभिनम्य तस्य तीर्थेश्वरस्य संस्तवनं करिष्ये । यत्तदोर्नित्याभिसम्बन्धात् तस्य कस्य ? यस्य स्तोत्रं विधातुं सुरगुरुर्न विभुः भवेदिति शेषः । कर्मुक्तिः । 'सुरगुरुः' बृहस्पतिः । सुराणां गुरुः सुरगुरुः 'तत्पुरुषः' । किंविशिष्टः सुरगुरुः । 'सुविस्तृतमतिरपि' सुविपुलबुद्धिरपि । सुविस्तृता मतिर्यस्य स सुविस्तृतमतिः 'बहुव्रीहिः' । किंभूतः ? ‘विभुः' क्षमः । कथम् ?' न' | असमर्थ इत्यर्थः । किं कर्तुम् ? 'विधातुं' निर्मातुम् । किं कर्मतापन्नम् ? ' स्तोत्रं' स्तवनम् । कथम् ? 'स्वयं' आत्मना । कस्य ? 'यस्य' तीर्थेश्वरस्य । यस्य किंलक्षणस्य ? 'गरिमाम्बुराशेः' गुरुत्वसमुद्रस्य । गुरोर्भावो गरिमा, गरिम्णः अम्बुराशि: गरिमाम्बुराशिस्तस्य गरिमाम्बुराशेः 'तत्पुरुषः' । किलेत्यलीके । अहं तस्य संस्तवनं करिष्ये । किलशब्दोऽत्रालीकार्थे । यस्य स्तोत्रं कर्तुं सुरगुरुरपि न क्षमः, तस्याहमेष मन्दमतिः संस्तवनं करिष्ये इत्येतत् सर्वथाऽसत्यमेवेत्यर्थः । इति प्रथमद्वितीयवृत्तार्थः ॥ १-२ ॥ श्री माणिक्यचन्द्रमुनीशविरचिता विवृतिः
?
' रैवता' द्विशिरचूला - मणिं नेमिजिनोत्तमम् ।
प्रणम्य परया भक्त्या, स्मृत्वा वागधिदेवताम् ॥ १ ॥ - अनु०
1. 'तत्पुरुषः' इति क-पाठः । २ 'मन्दिर' इति क- पाठः । ३ 'प्रथमवृत्तद्वयार्थः' इति ख- पाठः ।
Jain Education International
—
For Private & Personal Use Only
www.jainelibrary.org