________________
श्रीसिद्धसेनदिवाकरकृतम्
१५७
र्शने । किल इति प्रसिद्धवार्तायाम् । कौशिकशिशुः धर्मरश्मेः रूपं किं प्ररूपयति ? । कस्रुक्तिः । ‘कौशिकशिशुः' उलूकबालकः । कौशिकस्य शिशुः कौशिकशिशुः 'तत्पुरुषः' । 'घ र्मरश्मेः' सूर्यस्य । घर्मा - उष्णा रश्मयो यस्य स धर्मरश्मिस्तस्य 'बहुव्रीहिः' । 'रूपं ' भास्वर - बिम्ब स्वरूपम् । किं 'रूपयति' ? यथावस्थितं कथयति ?, अपि तु नैव सूर्यस्य रूपं वक्तुं समर्थः । कथम्भूतोऽपि कौशिकशिशुः ? 'धृष्टोऽपि दृढहृदयतया प्रगल्भोऽपि । कौशिकशिशुः कथम्भूतः सन् ? 'दिवाऽन्धः' सन् दिवसे चक्षुर्विकलः सन् । दिवाशब्दो दिवसवाच कोऽव्ययमध्ये पठितोऽस्ति । इति तृतीयवृत्तार्थः ॥ ३ ॥
मा०वि० - सामान्यतोऽपीति । हे अधीश ! - हे स्वामिन्! अस्मादृशा मन्दमतयो जनाः सामान्यतोऽपि-सामान्यप्रकारतोऽपि तत्र स्वरूपं वर्णयितुं कथं अधीशाः - समर्था भवन्तीत्यन्वयः । ' भवन्ति' इति क्रियापदम् । के कर्तारः ? 'जनाः' । जनाः के ? 'अस्मा - दृशाः' छद्मस्था अतिशायिज्ञानरहिताः । 'समर्थविशेषणाद् विशेष्यं लभ्यते' इति जनाः इति पदाध्याहारः । एवमन्यत्राप्यध्याहारोऽविलोक्यमानपदानामप्यूह्यः । किं कर्तुम् ? 'वर्णयितुं' वर्णनाविषयी कर्तुम् । किं कर्मतापन्नम् ? ' स्वरूपम्' । कस्य ? ' तव' । कुतः ? ‘सामान्यतः’ । कथम्? ‘अपि' । उक्तमर्थं दृष्टान्तेन दृढयति । यदिवेति दृष्टान्तोपदर्शने । धृष्टोऽपि - प्रगल्भोऽपि कौशिकशिशुः - घूकबालः किल इति सत्ये धर्मरश्मेः - सूर्यस्य किं रूपं प्ररूपयति ? - निवेदयति ? अपि तु न प्ररूपयति । 'प्ररूपयति' इति क्रियापदम् । कः कर्ता ? 'कौशिक शिशुः । किं कर्मतापन्नम् ? ' रूपम्' । कस्य ? 'धर्मरश्मेः' । कथम् ? 'किम्' । कथम् ? 'यदिवा' । किंलक्षणः कौशिकशिशुः ? ' धृष्टः' । कथम् ? ' अपि' । पुनः किम्भूतः ? 'दिवाऽन्धः' दिवसान्धः ॥
सामान्यादिति सामान्यतः पञ्चम्यर्थे तस्प्रत्ययः [पञ्चमीङसिलो परत्वव्ययत्वात् ] । युष्मत्शब्दः षष्ठी ङस् 'तव मम ङन्सा' (सिद्ध० २-१- १५ ) इति ङसा सह तवादेशः । वर्णनाय वर्णयितुं 'वर्ण' इति चुरादिधातुः । 'चुरादिभ्यो णिच्' (सिद्ध० ३-४ -१७), तुम्प्रत्ययः इप्रत्ययः 'गुणोऽरेदोत्' (सिद्ध० ३-३-२ ), 'एदैतोऽयाय्' (सिद्ध० १-२-२३) । [ स्वरूपं - लक्षणम् ] अस्मादृशाः - अस्मत्सदृशा अस्मदशब्दादग्रे दृश्धातुस्तदग्रे टकू - प्रत्ययः, 'आ द्वेरः' (सिद्ध २-१-४१) इति दकारस्य अकारः, 'लुगस्यादेत्यपदे' (सिद्ध० २-१-११३) स्मस्याकारलोपः अकारे संहिते 'अन्यत्यदादेरा:' ( सिद्ध० ३-२ - १५२ ) इति सूत्रेण समस्याकारस्य चाकारः अस्मादृश इति सिद्धं तदनु जसि अस्मादृशा इति जातम् । केन प्रकारेण कथं, किमशब्दात् थम्प्रत्ययः 'किमः कस्तसादौ च' (सिद्ध० २१ - ४० ) इति सूत्रेण किमूशब्दस्य क इत्यादेशः, 'अव्ययस्य' (सिद्ध० ३-२-७) सिलोपः कथमिति सिद्धम् । अधिउपसर्गोऽधिकार्थः अधि ईशः अधीशस्तस्य सम्बोधनं हे अधीश ! | भूधातुः 'वर्तमाना० ' (सिद्ध० ३ - ३ - ६) बहुवचनं अन्ति, 'कर्तर्यनद्भ्यः शब् (सिद्ध० ३-४-७१), 'गुणः ० ' अवादेशः, 'लुगस्यादेत्यपदे' अलोपः भवन्तीति सिद्धम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org