________________
१५८
कल्याणमन्दिरस्तोत्रम् धृष्धातुः क्तप्रत्ययः 'तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवर्गों' (सिद्ध० १-३-६०) इति सूत्रेण तस्य टः प्रथमा सौ धृष्ट इति सिद्धम् । कौशिकस्य शिशुः कौशिकशिशुः । दिवा इति अव्ययं, दिवा अन्धः दिवाऽन्धः । प्रपूर्वो 'रूप' धातुः 'चुरादिभ्यो णिच्' इति णिच्प्रत्ययः शव् 'वर्तमाना तिव्' 'गुणः०' अय् प्ररूपयतीति सिद्धम् । घर्मा-उष्णा रश्मयः-किरणा यस्य स धर्मरश्मिस्तस्य । इति तृतीयकाव्यार्थः॥३॥ • He points out his incompetency to undertake such a work:
Oh Lord! how can persons like us succeed in giving even a general outline of Thy nature? Is indeed a young-ope of an owl blind by day capable of describing the orb of the hot-rayed one ( sun ), however presumptuous it inay be? (3)
आस्तामहं मन्दमतिः, किन्तु केवलज्ञानी ज्ञानेन जानानोऽपि न जिनगुणान् वक्तुं प्रभूष्णुरित्याह
मोहक्षयादनुभवन्नपि नाथ ! मर्यो
नूनं गुणान् गणयितुं न तव क्षमेत । कल्पान्तवान्तपयसः प्रकटोऽपि यस्मा
न्मीयेत केन जलधेर्ननु रत्नराशिः ? ॥ ४॥ क० वृ०-हे नाथ! मय॑स्तव गुणान् गणयितुं न क्षमेत । कवुक्तिः। 'मर्त्यः' मनुष्यः। 'तव' भवतः । 'गुणान्' अनन्तज्ञानादिकान् । 'गणयितुं' सङ्ख्यातुम् । 'न क्षमेत' न समर्थो भवेत् । कथम् ? 'नूनं' निश्चयेन । मर्त्यः किं कुर्वन् ? 'अनुभवन्नपि' ज्ञानेन जानानोऽपि । कस्मात् ? 'मोहक्षयात्' मोहयतीति मोहः, घातिकर्मचतुष्टयं तस्य क्षयात्-विनाशात् । मोहस्य क्षयो मोहक्षयस्तस्मात् 'तत्पुरुषः' । घातिकर्मचतुष्कं ज्ञानावरण१दर्शनावरण२मोहनीया३ऽन्तराय४रूपम् । एतदेव दृष्टान्तेन हूँढयन्नाह-नन्विति परप्रश्ने । यस्मात जलधेः प्रकटोऽपि रत्नराशिः केन मीयेत? । कर्मोक्तिः । 'यस्मात्' कारणात् । 'जलधेः' समुद्रस्य । जलं धीयतेऽस्मिन्निति जलधिस्तस्य । 'रत्नराशिः' चन्द्रकान्तादिरत्ननिकरः। रत्नानां राशिः रत्नराशिः 'तत्पुरुषः' । रत्नराशिः किम्भूतोऽपि? 'प्रकटोऽपि' प्रत्यक्षोऽपि । 'केन' नरेण । 'मीयेत?' प्रमाणीक्रियेत ? अपि तु न केनापि मीयते । जलधेः किंविशिष्टस्य ? 'कल्पान्तवान्तपयसः' कल्पान्तेन-युगान्तेन वान्तं-विक्षिप्तं पयो-जलं यस्य स तस्य । कल्पस्य अन्तः कल्पान्तः 'तत्पुरुषः', कल्पान्तेन वान्तं कल्पान्तवान्तं तत्पुरुषः', कल्पान्तवान्तं पयो यस्य स कल्पान्तवान्तपयास्तस्य 'बहुव्रीहिः' । इति चतुर्थवृत्तार्थः॥४॥ . मा० वि०-मोहक्षयादिति । हे नाथ! मो-मनुष्यो मोहक्षयात्-मोहनीयकर्मक्ष.दृढयति' इति ख-पाठः ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org