Book Title: Anusandhan 2004 03 SrNo 27
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसंधान-२७
सरस्वती-वत्स ! श्रृणु
मध्येसुरसभं देवः कथारसकुतूहली ।
किञ्चिद्विवक्षुरखिला-मालुलोक सुरावलीम् ॥४॥ अथ समेऽपि समवहिता देवा देवपादाभिमुखं तस्थुः । देव :
भो भोः सुराः कलिरयं कलुषीकरोति, भूलोकमेतमिव सन्तमसं समस्तम् । तेनान्वहं सुकृतवर्म विहाय मोहात्,
सर्वत्र सम्प्रति विशो विपथं विशन्ति ॥५॥ सुरा :- सत्यं भाषन्ते देवपादाः, ओमिति प्रतिश्रृण्वन्ति । देवः पुनरपि
तत्रैव कुत्रचिदपि प्रतिपद्य दैवादेशं पदं कृतयुगं लभते त्विदानीम् । तस्याद्य मे वसति निर्णयमन्तरेण, श्लाध्यैरलं बहुरसैरपरैर्विलासैः ॥६॥
अथ सर्वेऽपि सुराः कर्णाकर्णि परस्परं मन्त्रयन्ति । स्वामी कृतयुगपदजिज्ञासुरस्ति । ततस्तदन्वेषणार्थमालोकितव्योऽस्माभिर्मर्त्यलोकः, तत्रापि मध्यदेशः । यतो वर्ण्यतेऽयं वृद्धैः ।
सुरगिरिरिव कल्पपादपानां, भवति नृणां प्रभावो महीयसां यः । विलसति खलु यत्र तीर्थमाता, जयति जगत्यनघः स मध्यदेशः ॥६॥ अतस्त्वरितव्यं तद्विलोकनाय ।
इति निष्क्रान्ता महितदेवा देव्यश्च ।
अथ दौवारिकः - जयन्तु भट्टारकाः ! (देवो नयन्ते(ने) न प्रतीच्छति)
दौवारिकः - देव ! मर्त्यलोकादागतः सुरगणो देवदर्शनाभिलाषी द्वारे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114