________________
२४
इत्यादौ तयोरोजस्त्वम् ।
ध्वन्यालोकः
[२-१०,११,१२
समर्पकत्वं काव्यस्य यत्तु सर्वरसान् प्रति । स प्रसादो गुणो ज्ञेयः सर्वसाधारण क्रियः ॥ १० ॥
प्रसादस्तु स्वच्छता शब्दार्थयोः । स च सर्वसाधारणो गुणः सर्वरचना साधारणश्च व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः ।
श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः । ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः ॥ ११ ॥
अनित्यदोषाश्च ये श्रुतिदुष्टादयः सूचितास्तेऽपि न वाच्ये अर्थमात्रे,
न च व्यङ्गये शृङ्गारव्यतिरेकिणि शृङ्गारे वा ध्वनेरनात्मभूते । किं तर्हि ? ध्वन्यात्मन्येव शृङ्गारेऽङ्गितया व्यङ्गये ते हेया इत्युदाहृताः । अन्यथा हि तेषामनित्यदोषतैव न स्यात् ।
एवमयमसंलक्ष्यक्रमोद्दयतो ध्वनेरात्मा प्रदर्शितः सामान्येन ।
तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये । तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पने ॥ १२ ॥
अङ्गितया व्यङ्गयो रसादिविवक्षितान्यपरवाच्यस्य ध्वनेरेक आत्मा य उक्तस्तस्याङ्गानां वाच्यवाचकानुपातिनामलङ्काराणां ये प्रभेदा निरवधयः, ये च स्वगतास्तस्याङ्गिनोऽर्थस्य रसभावतदाभासतत्प्रशमलक्षणा विभावानुभावव्यभिचारिप्रतिपादनसहिता अनन्ताः स्वाश्रयापेक्षया निःसीमानो विशेषास्तेषामन्योन्यसम्बन्धपरिकल्पने क्रियमाणे कस्यचिदन्यतमस्यापि रसस्य प्रकाराः परिसङ्ख्यातुं न शक्यन्ते किमुत सर्वेषाम् । तथा हि शृङ्गारस्याङ्गिनस्तावदाद्यौ द्वौ भेदौ- सम्भोगो विप्रलम्भश्च । सम्भोगस्य च