Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
ध्वन्यालोकः
महृदयैरभ्यूह्यम् । अत्र च पुनः पुनरुक्तमपि सारतयेदमुच्यते व्यङ्गव्यव्यञ्जकभावेऽस्मिन् विविधे सम्भवत्यपि । रसादिमय एकस्मिन् कविः स्यादवधानवान् ॥ ५ ॥ अस्मिन्नर्थानन्त्यहेतो व्यङ्गयन्यञ्जकभावे विचित्रे शब्दानां सम्भवत्यपि कविरपूर्वर्थिलाभार्थी रमादिमय एकस्मिन् व्यङ्ग्यव्यञ्जकभावे यत्नादवदधीत | रसभावतदाभासरूपे हि व्यङ्गये तद्व्यञ्जकेषु च यथानिर्दिष्टेषु वर्णपदवाक्यरचनाप्रबन्धेष्ववहितमनसः कवेः सर्वमपूर्वं काव्यं सम्पद्यते ।
तथा च रामायणमहाभारतादिषु संग्रामादयः पुनः पुनरभिहिता अपि नवनवाः प्रकाशन्ते । प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानोऽर्थविशेषलाभं छायातिशयं च पुष्णाति । कस्मिन्निवेति चेत् — यथा रामायणे यथा वा महाभारते । रामायणे हि करुणो रसः स्वयमादिकविनासूत्रितः शोकः लोकत्वमागतः' इत्येवंवादिना । निर्व्यूढश्च स एव सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता । महाभारते ऽपि शास्त्ररूपे काव्यच्छायान्वयिनि वृष्णिपाण्डवविरमावसानवैमनस्यदायिनीं समाप्तिमुपनिनता महामुनिना वैराम्यजननतात्पर्यं प्राधान्येन स्वप्रबन्धस्य दर्शयता मोक्षलक्षणः पुरुषार्थ: शान्तो रसश्च मुख्यतया विवक्षाविषयत्वेन सूचितः । एतच्चांशेन विवृतमेवान्यैर्व्याख्यात्रिधायिभिः । स्वयमेव चैतदुद्गणं तेनोदीर्णमहामोहमग्नमुज्जेहर्षिता लोकमतिविमलज्ञानालोकदायिना लोकनाथेन -
१०८
यथा यथा विपर्येति लोकतन्त्रमसारवत् । तथा तथा विरागोत्र जायते नात्र संशयः ॥
―
"
[ ४-५
इत्यादि बहुशः कथयता । ततश्च शान्तो रसो रसान्तरैः मोक्षलक्षणः पुरुषार्थः पुरुषार्थान्तरैः तदुपसर्जनत्वेनानुगम्यमानोऽङ्गित्वेन विवक्षाविषय इति महाभारततात्पर्यं सुव्यक्तमेव । वभासते ।

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530