Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
ध्वन्यालोकः
१०९ अङ्गाङ्गिभावश्च यथा रसानां तथा प्रतिपादितमेव ।
पारमार्थिकान्तस्तत्त्वानपेक्षया शरीरस्येवाङ्गभूतस्य रसस्य पुरुषार्थस्य च स्वप्राधान्येन चारुत्वमप्यविरुद्धम् ।
ननु महाभारते यावान् विवक्षाविषयः, सोऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैतत्तत्र दृश्यते. प्रत्युत सर्वपुरुषार्थप्रबोधहेतुत्वं सर्वरसगर्भत्वं च महाभारतस्य तस्मिन्नुद्देशे स्वशब्दनिवेदितत्वेन प्रतीयते ।
___ अत्रोच्यते । मत्यं शान्तस्यैव रसस्याङ्गित्वं महाभारते मोक्षस्य च सर्वपुरुषार्थेभ्यः प्राधान्यमित्येतन्न स्वशब्दाभिधेयत्वेनानुक्रमण्यां दर्शितं, दर्शितं तु व्यङ्ग्यत्वेनः- भगवान् वासुदेवश्च कीयतेऽत्र सनातनः' इत्यस्मिन् वाक्ये । अनेन ह्ययमों व्यङ्गयत्वेन विवक्षितो यदत्र महाभारते पाण्डवादिचरितं यत्कीय॑ते , तत्सर्वमवसानविरसमविद्याप्रपञ्चरूपञ्च, परमार्थसत्यस्वरूपस्तु भगवान् वासुदेवोऽत्र कीयते । तस्मात्तस्मिन्नेव परमेश्वरे भगवति भवत भावितचेतसो, मा भूत विभूतिषु निःसारासु रागिणो, गुणेषु वा नयविनयपराक्रमादिष्वमीषु केवलेषु केषुचित् सर्वात्मना प्रतिनिविष्टधियः । तथा चाग्रेपश्यत निःसारतां संसारस्ये त्यमुमेवार्थातिशयं द्योतयन् स्फुटमेवावभासत व्यञ्जकशक्त्यनुगृहीतश्चशब्दः । एवंविधमेवार्थ गर्भीकृतं सन्दर्शयन्तोऽनन्तरश्लोका लक्ष्यन्ते--- स हि सत्यम् ' इत्यादयः ।
___ अयं च निगूढरमणीयोऽर्थो महाभारतावसाने हरिवंशवर्णनेन समाप्ति विदधता तेनैव कविवेधमा कृष्णद्वैपायनेन सम्यक्स्फुटीकृतः । अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्यतिशयं प्रवर्तयता सकल एवं सांसारिको व्यवहारः पूर्वपक्षीकृतो न्यक्षण प्रकाशते। देवतातीर्थतपःप्रभृतीनां च प्रभावातिशयवर्णनं तस्यैव परब्रह्मणः प्राप्त्युपायत्वेन तद्विभूतित्वेनैव देवताविशेषाणामन्येषां च । पाण्डवादिचरितवर्णनस्यापि वैराग्यजननतात्पर्याद्वैराग्यस्य च मोक्षमूलत्वान्मोक्षस्य च भगवत्प्राप्त्युपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात् परब्रह्मप्राप्त्युपायत्वमेव परम्परया । वासुदेवादिसंज्ञाभिधेयत्वेन

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530