Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 516
________________ ४-६,७) ध्वन्यालोकः ___ १११ । विद्यति रोमाञ्चति वेपते रथ्यातुलाग्रप्रतिलग्नः । स पार्थोऽद्यापि सुभग येनाम्यतिक्रान्तः ।। इति च्छाया एतद्गाथार्थाद् भाव्यमानाद या रसप्रतीतिर्भवति मा त्वां स्पृष्ठा स्विद्यति, रोमाञ्चते, वेपते इत्येवंविधादर्थात् प्रतीयमानान्मनागपि ना जायते । तदेवं ध्वनिप्रभेदसमाश्रयेण यथा काव्यार्थानां नवत्वं जायत तथा प्रतिपादितम् । गुणीभूतव्यङ्गयस्यापि त्रिभेदव्यङ्गयापेक्षया ये प्रकाराः, तत्समाश्रयेणापि काव्यवस्तूनां नवत्वं भवत्येव। तत्त्वतिविस्तारकारीति नोदाहृतं. सहृदयैः स्वयमुत्प्रेक्षणीयम् । ध्वनेरित्थं गुणीभूतव्यङ्गयस्य च समाश्रयात् । न काव्यार्थविरामोऽस्ति यदि स्यात् प्रतिभागुणः ॥ ६॥ सत्स्वपि पुरातनकविप्रबन्धेषु यदि स्यात् प्रतिभागुणः. तस्मिंस्त्वसति न किञ्चिदेव कवेर्वस्त्वस्ति। बन्धच्छायाप्यर्थद्वयानुरूपशब्दसन्निवेशो ऽर्थप्रतिभानाभावे कथमुपपद्यते । अनपेक्षितार्थविशेषाक्षररचनैव बन्धच्छायेति नेदं नेदीयः सहृदयानाम् । एवं हि सत्यानपेक्षचतुरमधुरवचनरचनायामपि काव्यव्यपदेशः प्रवर्तेत । शब्दार्थयोः साहित्येन काव्यत्वे कथं तथाविध विषय काव्यव्यवस्थेति चेत्-परोपनिबद्धार्थविरचने यथा तत्काव्यव्यवहारस्तथा तथाविधानां काव्यसन्दर्भाणाम् । न चार्थानन्त्यं व्यङ्गयार्थापेक्षयैव यावद्वाच्यार्थापेक्षयापीति प्रतिपादयितुमुच्यते अवस्थादेशकालादिविशेषैरपि जायते । आनन्त्यमेव वाच्यम्य शुद्धस्यापि स्वभावतः ॥ ७॥

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530