Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 522
________________ ४-१६,१७,१८] पन्यालोकः अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी। नूतने स्फुरति काव्यवस्तुनि व्यक्तमेव खलु सा न दुष्यति ॥१५॥ न हि वाचस्पतिनाप्यक्षराणि पदानि वा कानिचिदपूर्वाणि घटयितुं शक्यन्ते । तानि तु तान्येव उपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति । तथैव पदार्थरूपाणि श्लेषादिमयान्यर्थतत्त्वानि । तस्मात् – यदपि तदपि रम्यं काव्यशरीरं यत्र लोकस्य किश्चित् यल्लोकस्य किञ्चित् स्फुरितमिदमितीयं बुद्धिरभ्युजिहीते। स्फुरणेयं काचिदिति सहृदयानां चमत्कृतिरुत्पद्यते । अनुगतमपि पूर्वच्छायया वस्तु तादृक् सुकविरुपनिबध्नन् निन्द्यतां नोपयाति ॥१६॥ तदनुगतमपि पूर्वच्छायया वस्तु तादृक् तादृशं सुकविर्विवक्षितव्यङ्ग्यवाच्यार्थसमर्पणसमर्थशब्दरचनारूपया बन्धच्छाययोपनिबध्नन् निन्द्यतां नैव याति । तदित्यं स्थिते -- प्रतायन्तां वाचो निमितविविधार्थामृतरसा न सादः कर्तव्यः कविभिरनवद्ये स्वविषये । सन्ति नवाः काव्यार्थाः, परोपनिबद्धार्थविरचने न कश्चित् कवर्गुण इति भावयित्वा परस्वादानेच्छाविरतमनसो वस्तु सुकवेः सरस्वत्येवैषा घटयति यथेष्टं भगवती ।। १७॥ परस्वादानेच्छाविरतमनसः सुकवेः सरस्वत्येषा भगवती यथेष्टं घटयति वस्तु । येषां सुकवीनां प्राक्तनपुण्याभ्यासपरिपाकवशेन प्रवृत्ता वाक् तेषां

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530