Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 520
________________ ध्वन्यालोकः मम मम इति भणतो व्रजति कालो जनस्य । तथापि न देवो जनार्दनो गोचरो भवति मनसः ॥ [ इति च्छाया ] इत्थं यथा यथा निरूप्यते, तथा तथा न लभ्यतेऽन्तः काव्यार्थानाम् I ४–८,९,१०,११] इदं तूच्यते . - अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् । यत्प्रदर्शितं प्राक्, भून्नैव दृश्यते लक्ष्ये, न तच्छक्यमपोहितुम् । तत्तु भाति रसाश्रयात् ॥ ८ ॥ तदिदमत्र संक्षेपेणाभिधीयते सत्कवीनामुपदेशाय रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी । अन्वीयते वस्तुगतिर्देशकालादिभेदिनी ॥ ९ ॥ तत् का गणना कवीनामन्येषां परिमितशक्तीनाम्, वाचस्पतिसहस्राणां सहस्त्रैरपि यत्नतः । निबद्धा सा क्षयं नैति प्रकृतिर्जगतामिव ॥ १० ॥ यथा हि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा सती पुनरिदानीं परिक्षीणापरपदार्थनिर्माणशक्तिरिति न शक्यतेऽभिधातुम् । तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदानीं परिहीयते, प्रत्युत नवनवाभिर्न्यत्पत्तिभिः परिवर्धते । इत्थं स्थितेऽपि— - ११५ संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् । स्थितं ह्येतत् संवादिन्य एव मेधाविनां बुद्धयः । किन्तु — नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ॥। ११ ॥

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530