Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 519
________________ ११४ ध्वन्यालोकः [४-७ पपत्तेः । अत एव म प्रकारविशेषो यैरद्यतनरभिनवत्वेन प्रतीयते, तेषामभि मानमात्रमेव भणितिकृतं वैचित्र्यभात्रमत्रास्तीति । तत्रोच्यते। यत्तुक्तं मामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तस्य च परिमितत्त्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्व काव्यवस्तूनामिति तदयुक्तम् । यतो यदि सामान्यमात्रमाश्रित्य काव्यं प्रवर्तते किंकृतस्तर्हि महाकविनिबध्यमानानां काव्याथानामतिशयः ? वाल्मीकिव्यतिरिक्तम्य अन्यस्य कविन्यपदेश एव वा, सामान्यव्यतिरिक्तस्यान्यस्य काल्यार्थभ्याभावात् । सामान्यस्य चादिकविनेव प्रदाशतत्त्वात् । उक्तिवैचित्र्यान्नेष दोष इति चेत् किमिदमुक्तिवैचित्र्यम ? उक्तिाह वाच्यविशेषप्रतिपादि वचनम् । तद्वैचित्र्ये कथं न वाच्यवैचित्र्यम् । वाच्यवाचकयोरविनाभावेन प्रवृत्तेः । वाच्यानां च काव्ये प्रतिभासमानानां यद्रूपं तत्त ग्राह्यविशेषाभेदेनेव प्रतीयते । तेनोक्तिवैचित्र्यवादिना वाच्यवैचित्र्यमनिच्छताप्यवश्यमेवाभ्युपगन्तव्यम् । तदयमत्र मंक्षेपः वाल्मीकिव्यतिरिक्तम्य यद्येकस्यापि कस्यचित् । इप्यते प्रतिभार्थेषु तत्तदानन्त्यमक्षयम् ।। किञ्च उक्तिवैचित्र्यं यत्काव्यनवत्वे निवन्धनमुच्यते, तदस्मत्पक्षानुगुणमेव । यतो यावानयं काव्यार्था नन्त्यभेदहेतुः प्रकारः प्रान्दर्शितः, स सर्व एव पुनरुक्तिवैचित्र्याद् द्विगुणत्वमापद्यते । यश्चायमुपमाश्लेषादिरलङ्कारवर्गः प्रसिद्धः स भणितिवैचित्र्यादुपनिषध्यमानः स्वयमेवानवधिर्धत्ते पुनः शतशाखताम् । भणितिश्च म्वभाषाभेदेन व्यवस्थिता सती प्रतिनियतभाषागोचरार्थवैचित्र्यनिबन्धनं पुनरपरं काव्यार्थानामानन्त्यमापादयति । यथा ममैव महुमहु इत्ति भणताहो वच्चदि कालु जणस्सु । तोइ ण देउ जणद्दणउ गोअरीभोदि मणस्सु ॥

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530