Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 512
________________ ४–४| ध्वन्यालोकः तथा हि त्रिवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणनरूपव्यङ्गचप्रकारसमाश्रयेण नवत्वम् । यथा- - ' धरणीधारणायाधुना त्वं शेषः ' इत्यादौ । इत्यादिषु सत्स्वपि । शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः । यदलङ्घितमर्यादाश्चलन्तीं बिभ्रते भुवम् ॥ ― तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्गयसमाश्रयेण इत्यादिषु सत्स्वप्यपूर्वत्वमेव । १०७ ' एवं वादिनि देवर्षी ' इत्यादि श्लोकस्य कृते वरकथालापे कुमार्यः पुलकोद्गमैः । सूत्रयन्ति स्पृहामन्तर्लज्जयावनताननाः || इत्यादिषु सत्सु । अर्थशक्त्युद्भवानुरणनरूपव्यङ्गयस्य निर्मितशरीरत्वेन नवत्वं यथा-सज्जेइ सुरहिमासो ' इत्यादेः सुरभिसमये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः । रागवतामुत्कलिकाः सहैव सहकारकलिकाभिः । नवत्वं यथा - कविप्रौढोक्ति अर्थशक्त्युद्भवानुरणनरूपव्यङ्गयस्य कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरत्वेन नवत्वं यथा - ' वाणिअअ हत्थिदन्ता ' इत्यादिगाथार्थस्य करिणीवेहल्वअरो मह पुत्तो एक्ककंडविणिवा । असोहाएँ तह कओ अह कंडकरंडअं वह || [ करिणीवैधन्यकरो मम पुत्र एककाण्डविनिपाती । हतस्नुषया तथा कृतो यथा काण्डकरण्डकं वहति ।। [ इति च्छाया ] एवमादिष्वर्थेषु सत्स्वप्यना लीढतैव । यथा व्यङ्गयभेदसमाश्रयेण ध्वनेः काव्यार्थानां नवत्वमुत्पद्यते तथा व्यञ्जकभेदसमाश्रयेणापि । तत्तु ग्रन्थविस्तरभयान्न लिख्यते स्वयमेव

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530