Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
४-२]
ध्वन्यालोकः
१०५
इत्यस्य
सविभ्रमस्मितो दा लोलाक्ष्यः प्रस्खलगिरः ।
नितम्बालसगामिन्यः कामिन्यः कस्य न प्रियाः ।। इत्येवमादिषु श्लोकेषु सत्स्वपि तिरस्कृतवाच्यध्वनिसमाश्रयेण अपूर्वत्वमेव प्रतिभासते।
तथा -
यः प्रथमः प्रथमः स तु तथाहि हतहस्तिबहलपललाशी ।
श्वापदगणेषु सिंहः सिंहः केनाधरीक्रियते ।। इत्यस्य,
स्वतेजःक्रीतमहिमा केनान्येनातिशय्यते ।
महद्भिरपि मातङ्गैः सिंहः किमभिभूयते ।। इत्येवमादिषु श्लोकेषु सत्स्वपि अर्थान्तरसङ्क्रमितवाच्यध्वनिसमाश्रयेण नवत्वम् ।
विवक्षितान्यपरवाच्यस्याप्युक्तप्रकारसमाश्रयेण नवत्वं यथा -
निद्राकैतविनः प्रियस्य वदने विन्यस्य वक्त्रं वधूः बोधनासनिरुध्दचुम्बनरसाप्याभोगलोलं स्थिता । वैलक्ष्याद्विमुखीभवेदिति पुनस्तस्याप्यनारम्भिणः
साकाङ्क्षप्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ।। इत्यादेः श्लोकस्य -
शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युमुखम् ।

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530