Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
चतुर्थोद्दयोतः
एवं ध्वनिं प्रपञ्चं विप्रतिपत्तिनिरासार्थं व्युत्पाद्य तदन्युत्पादने
प्रयोजनान्तरमुच्यते
ध्वनेर्यः सगुणीभूतव्यङ्गन्यस्याध्वा प्रदर्शितः । अनेनानन्त्यमायाति कवीनां प्रतिभागुणः ॥ १ ॥
य एष ध्वनेर्गुणीभूतव्यङ्ग्यस्य च मार्गः प्रकाशितः, तस्य फलान्तरं
कविप्रतिभानन्त्यम् ।
←
कथमिति चेत्
――
अतो ह्यन्यतमेनापि प्रकारेण विभूषिता ।
वाणी नवत्वमायाति पूर्वार्थान्वयवत्यपि ॥ २ ॥
अतो ध्वनेरुक्तप्रभेदमध्यादन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातनकविनिबद्धार्थसंस्पर्शवत्यपि नवत्वमायाति ।
तथाह्यविवक्षितवाच्यस्य ध्वनेः प्रकारद्वयसमाश्रयणेन नवत्वं. पूर्वार्थानुगमेऽपि यथा
स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोर्मिसरसः । गतानामारम्भः किसलयित लीलापरिमल: स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530