Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
३-४७]
ध्वन्यालोकः
जात्यत्वमिव रत्नविशेषाणां चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यलक्षणं ध्वनेरुच्यते केनचित्तद्युक्तमिति नाभिधेयतामर्हति । यतः शब्दानां स्वरूपाश्रयस्तावद क्लिष्टत्वे सत्यप्रयुक्तप्रयोगः । वाचकाश्रयस्तु प्रसादो व्यञ्जकत्वं चति विशेषः | अर्थानां च स्फुटत्वेनावभासनं व्यङ्गयपरत्वं व्यङ्गयांशविशिष्टत्वं चेति विशेषः ।
१०३
तौ च विशेषौ व्याख्यातुं शक्येते व्याख्यातौ च बहुप्रकारम् | तव्यतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभाव मूलैव । यस्मादनाख्येयत्वं सर्वशब्दागोचरत्वेन न कस्यचित्सम्भवति । अन्ततोऽनाख्येयशब्देन तस्याभिधानसम्भवात् । सामान्यसंस्प शिविकल्पशब्दागोचरत्वे सति प्रकाशमानत्वं तु यदानाख्येयत्वमुच्यते क्वचित् तदपि काव्यविशेषाणां रत्नविशेषाणामित्र न सम्भवति । तेषां लक्षणकारैर्व्याकृतरूपत्वात् । रत्नविशेषाणां च सामान्य सम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च । उभयेषामपि तेषां प्रतिपत्तविशेषसंवेद्यत्वमस्त्येव । वैकटिका एव हि रत्नतत्त्वविदः, सहृदया एवहि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः ।
यत्त्वनिर्देश्यत्वं सर्वस्वलक्षणविषयं वौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरं निरूपयिष्यामः । इह तु ग्रन्थान्तर श्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते । बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति । तस्मालक्षणान्तरस्याघटनादृशव्दार्थत्वाच्च तस्योक्तमेव ध्वनिलक्षणं साधीयः । तदिदमुक्तम् -
1
अनाख्येयांशभासित्वं निर्वाच्यार्थतया ध्वनेः । न लक्षणं. लक्षणं तु साधीयोऽस्य यथोदितम् || इति श्रीराजानकानन्दवर्धनाचार्यविरचितं ध्वन्यालोके तृतीय उद्योतः ॥

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530