Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
३-४३]
ध्वन्यालोकः
१०१
Me
वाच्यालङ्कारसंसृष्टत्वं च पदापेक्षयैव। यत्र हि कानिचित्पदानि वाच्यालङ्कारभाजि कानिचिच्च ध्वनिप्रभेदयुक्तानि । यथा
दी|कुर्वन् पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूल:
सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ।।
अत्र हि मैत्रीपदमविवक्षितवाच्यो ध्वनिः । पदान्तरेष्वलङ्कारान्तराणि । संसृष्टालंकारान्तरसंकीर्णो ध्वनिर्यथा--
दन्तक्षतानि करजैश्च विपाटितानि
प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा
जातस्फूहैर्मुनिभिरप्यवलोकितानि॥
अत्र हि समासोक्तिसंसृष्टेन विरोधालंकारेण संकीर्णस्यालक्ष्यक्रमव्यङ्गयस्य ध्वनेः प्रकाशनम् । दयावीरस्य परमार्थतो वाक्याथीभूतत्वात् । संसृष्टालङ्कारसंसृष्टत्वं च ध्वनेर्यथा -
अहिणअपओअरसिएसु पहिअसामाइएसु दिअहेसु । सोहइ पसरिअगोआणं णच्चिों मोरबुदाणं ॥ [अभिनवपयोदरसितेषु पथिकश्यामायितेषु दिवसेषु । शोभते प्रतरितग्रीवाणां (गीतानां ) नृत्तं मयूरवृन्दानाम् ॥
[इति च्छाया ] अभिनवप्रयोगरसिकेषु पथिकसामाजिकेषु दिवसेषु । शोभते प्रसरितगीतानां नृतं मयूरवृन्दानाम् ॥
[इति च्छाया ॥]

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530