Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
१००
ध्वन्यालोकः
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं कास्ते दुर्योधनोऽसौ कपयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥
[३-४३
अत्र ह्यह्रक्ष्यक्रमन्यङ्गयस्य वाक्यार्थीभूतस्य व्यङ्ग्यविशिष्टवाच्याभिधायिभिः पदैः सम्मिश्रता । अत एव च पदार्थाश्रयत्वे गुणीभूतव्यङ्ग्यस्य वाक्यार्थाश्रयत्वे च ध्वनेः सङ्कीर्णतायामपि न विरोधः स्वप्रभेदान्तरवत् । यथाहि ध्वनिप्रभेदान्तराणि परस्परं सङ्कीर्यन्ते पदार्थवाक्यार्थाश्रयत्वेन च न विरुद्धानि ।
1
किं चैकव्यङ्गयाश्रयत्वे तु प्रधानगुणभावो विरुध्यते न तु व्यङ्गयभेदापेक्षया ततोऽप्यस्य न विरोधः । अयं च सङ्करसंसृष्टिव्यवहारो बहूनामेकत्र वाच्यवाचकभाव इव व्यङ्ग्यव्यञ्जकभावेऽपि निर्विरोध एव मन्तव्यः । यत्र तु पदानि कानिचिदविवक्षितवाच्यान्यनुरणनरूपव्यङ्गयवाच्यानि ध्वनिगुणीभूतव्यङ्गययोः संसृष्टत्वम् । यथा - तेषां गोपवधूविलाससुहृदाम् ' इत्यादौ । अत्र हि ' विलासमुहृदां राधारहः साक्षिणाम् ' इत्येते पढ़े ध्वनिप्रभेदरूप; 'ते', 'जाने' इत्येते च पदे गुणीभूतव्यङ्गरूपे ।
वा तत्र
'
1 6
वाच्यालङ्कारसङ्कीर्णत्वमलक्ष्यक्रमव्यङ्गयापेक्षया रसवति सालङ्कारे
काव्ये सर्वत्र सुव्यवस्थितम् । प्रभेदान्तराणामपि कदाचित्सङ्कीर्णत्वं भवत्येव । यथा ममैत्र–
या व्यापारवती रसान् रमयितुं काचित्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।
ते अप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं श्रान्तानेव च लब्धमब्धिशयन वद्भक्तितुल्यं मुखम् ॥ इत्यत्र विरोधालङ्कारेणार्थान्तरसंक्रमितवाच्यस्य ध्वनिप्रभेदस्य सङ्कीर्णत्वम् ।

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530