Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 504
________________ ३-४३] ध्वन्यालोकः सगुणीभूतव्यङ्गथैः सालङ्कारैः सह प्रभेदैः स्वैः। सङ्करसंसृष्टिभ्यां पुनरप्युद्दयोतते बहुधा ।। ४३ ॥ तस्य च ध्वनेः स्वप्रभेदैर्गुणीभूतव्यङ्गयेन वाच्यालङ्कारैश्च मङ्करसंसृष्टिव्यवस्थाया क्रियमाणायां बहुप्रभेदता लक्ष्ये दृश्यते । तथाहि स्वप्रभेदसङ्कीर्णः, स्वप्रभेदसंसृष्टो गुणीभूतव्यङ्गयसङ्कीणों गुणीभूतव्यङ्गयसंसृष्टो वाच्यालङ्कारान्तरसङ्कीर्णो वाच्यालङ्कारान्तरसंसृष्टः संसृष्टालङ्कारसङ्कीर्णः संसृष्टालङ्कारसंसृष्टश्चेति बहुधा ध्वनिः प्रकाशते । तत्र स्वप्रभेदसङ्कीर्णत्वं कदाचिदनुग्राह्यानुग्राहकभावेन । यथा । एवंवादिनि देवर्षों ' इत्यादौ । अत्र ह्यर्थशक्त्युद्भवानुरणनरूपव्यङ्गयध्वनिप्रभेदेनालक्ष्यक्रमव्यङ्गयध्वनिप्रेभदोऽनुगृह्यमाणः । खणपाहुणिआ देअर एसा जाआएँ किंपि दे भणिदा । रुअइ पडोहरवलहीघरम्मि अणुणिजउ वराई ।। [क्षणप्राघुणिका देवर एषा जायया किमपि ते भणिता । रोदिति शून्यवलभीगृहेऽनुनीयतां वराकी ।। [ इति च्छाया। अत्र ह्यनुनीयतामित्येतत्पदमर्थान्तरसङ्क्रमितवाच्यत्वेन विवक्षितान्यपरवाच्यत्वेन च सम्भाव्यते । न चान्यतरपक्षनिर्णये प्रमाणमस्ति । एकव्यञ्जकानुप्रवेशेन तु व्यङ्गयत्वमलक्ष्यक्रमव्यङ्ग यस्य स्वप्रभेदान्तरापेक्षया बाहुल्येन सम्भवति । यथा-'स्निग्धश्यामल' इत्यादौ । स्वप्रभेदसंसृष्टत्वं च यथा पूर्वोदाहरण एव । अत्र ह्यान्तरसंक्रमितवाच्यस्यात्यन्ततिरस्कृतवाच्यस्य च संसर्गः । गुणीभूतव्यङ्गयसङ्कीर्णत्वं यथा- • न्यक्कारो ह्ययमेव मे यदरयः' इत्यादौ । यथा वा - कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः ।

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530