SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ३-४३] ध्वन्यालोकः १०१ Me वाच्यालङ्कारसंसृष्टत्वं च पदापेक्षयैव। यत्र हि कानिचित्पदानि वाच्यालङ्कारभाजि कानिचिच्च ध्वनिप्रभेदयुक्तानि । यथा दी|कुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूल: सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ।। अत्र हि मैत्रीपदमविवक्षितवाच्यो ध्वनिः । पदान्तरेष्वलङ्कारान्तराणि । संसृष्टालंकारान्तरसंकीर्णो ध्वनिर्यथा-- दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्फूहैर्मुनिभिरप्यवलोकितानि॥ अत्र हि समासोक्तिसंसृष्टेन विरोधालंकारेण संकीर्णस्यालक्ष्यक्रमव्यङ्गयस्य ध्वनेः प्रकाशनम् । दयावीरस्य परमार्थतो वाक्याथीभूतत्वात् । संसृष्टालङ्कारसंसृष्टत्वं च ध्वनेर्यथा - अहिणअपओअरसिएसु पहिअसामाइएसु दिअहेसु । सोहइ पसरिअगोआणं णच्चिों मोरबुदाणं ॥ [अभिनवपयोदरसितेषु पथिकश्यामायितेषु दिवसेषु । शोभते प्रतरितग्रीवाणां (गीतानां ) नृत्तं मयूरवृन्दानाम् ॥ [इति च्छाया ] अभिनवप्रयोगरसिकेषु पथिकसामाजिकेषु दिवसेषु । शोभते प्रसरितगीतानां नृतं मयूरवृन्दानाम् ॥ [इति च्छाया ॥]
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy