________________
संसृष्टवन ।
स्वन्यालोकः
अत्र ग्रुपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्गचस्य ध्वनेः
- ४४,४५,४६
एवं ध्वनेः प्रभेदाः प्रददाव केन शक्यन्ते । संख्यातुं दिङ्मात्रं तेषामिदमुक्तमस्माभिः || ४४ ॥
कथितम् ।
अनन्ता हि नः प्रकारः महयानां व्युत्पत्तये तेषां दिमात्रं
इत्युक्तलक्षणो यो ध्वनिविवेच्यः प्रयत्नतः सद्भिः । सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तः ॥ ४५ ॥
उक्तस्वरूपध्वनिनिरूपणनिपुणा हि सत्कवयः महदयाच नियतमेव काव्यविषये परां प्रकमासादयन्ति ।
अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम् । अशक्नुवद्भिव्याकर्तुं रीतयः सम्प्रवर्तिताः ॥ ४६ ॥
एतद्वनिप्रवर्तनेन निर्णीत काव्यतत्त्वमस्फुटम्फुरितं मदशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः । रीतिलक्षणविधायिनां हि काव्यतत्त्वमेतम्टतया मनाक्स्फुरितमासीदिति लक्ष्यते तदत्र स्फुटतया सम्प्रदर्शितमित्यन्येन रीतिलक्षणेन न किञ्चित् ।
शब्दतत्त्वाश्रयाः काश्विदर्थतत्त्वयुजोऽपराः ।
वृत्तोऽपि प्रकाशन्ते ज्ञातेऽस्मिन् काव्यलक्षणे ॥ ४७॥
अस्मिन् व्यङ्ग्यव्यञ्जकभावविवेचनमये काव्यलक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागरिकाद्याः शब्दतत्त्वाश्रया वृत्तयो याश्वार्थतत्त्वसम्बद्धाः केशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति । अन्यथा तु तासामदृष्टार्थानामित्र वृत्तीनामश्रद्धेयत्वंमंत्र स्यान्नानुभवसिद्धत्वम् । एवं स्फुटतयैव लक्षणीयं स्वरुपमस्य ध्वनेः । यत्र शब्दानामर्थानां च केषाञ्चित्प्रतिपत्तविशेषसंवद्यं
: