Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 489
________________ ध्वन्यालोकः [३-३३ तदेकरूपा सहृदयहृदयाह्लादिनी प्रतीयमाना । प्रतीतिहेतुत्वाद्विषयान्तरे तद्रूपशून्यायाश्च दर्शनात् । एत व सर्व प्रावितमपि स्फुटतरप्रतीतये पुनरुक्तम् । अपि च व्यञ्जकत्वलक्षणो यः शब्दार्थयोधर्मः स प्रसिद्धसम्बन्धानुरोधीति न कस्यचिद्विमतिविषयतामर्हति । शब्दार्थयोर्हि प्रसिद्धो यः सम्बन्धो वाच्यवाचकभावाख्यत्तमनुहन्वान एवं व्यञ्जकत्वलक्षणो व्यापारः सामग्र्यन्तरसम्बन्धादौपाधिकः प्रवर्तते । अत एव वाचकत्वात्तस्य विशेषः । वाचकत्वं हि शब्दविशेषस्य नियत आत्मा व्युत्पत्तिकालादारभ्य तदविनाभावेन तम्य प्रसिद्वत्वात् । प्त त्वनियतः, औपाधिकत्वात् । प्रकरणाद्यवच्छेदेन तस्य प्रतीतेरितरथा त्वप्रतोतेः । ननु यद्यनियतस्तत्किं तस्य स्वरूपपरीक्षया । नैष दोषः; यतः शब्दात्मनि तम्यानियतत्वम्, न तु स्वे विषये व्यङ्गयलक्षणे । लिङ्गत्वन्यायश्वास्य व्याकभावस्य लक्ष्यते; यथा लिङ्गत्वमाश्रयेष्वनियताभासम्, इच्छाधीनत्वात्; स्वविषयाव्यभिचारि च । तथैवेदं यथा दर्शितं व्यजकत्वम् । शब्दान्मन्यनियतत्वादेव च तस्य वाचकत्वप्रकारता न शक्या कल्पयितुम् । यदि हि वाचकत्वप्रकारता तस्य भवेत्तच्छब्दात्मनि नियततापि स्याद्वाचकत्ववत् । स च तथाविध औपाधिको: धर्मः शब्दानामौत्पत्तिकशब्दार्थसम्बन्धवादिना वाक्यतत्त्वविदा पौरुषापौरुषेययोर्वाक्ययोर्विशेषमभिदधता नियमेनाभ्युपगन्तव्यः, तदनभ्युपगमे हि तस्य शब्दार्थसम्बन्धनित्यत्वे सत्यप्यपौरुषेयपौरुषेययोर्वाक्ययोरर्थप्रतिपादने निर्विशेषत्वं स्यात् । तदनभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधानसमारोपितोपाधिकव्यापारान्तराणां सत्यपि स्वाभिधेयसन्बम्धापरित्यागे मिथ्यार्थतापि भवेत् । दृश्यते हि भावानामपरित्यक्तस्वस्वभावानामपि सामग्र्यन्तरसम्यातसम्पादितौपाधिकव्यापागन्नराणां विरुद्धक्रियत्वम् । तथा हि-हिममयूखप्रभृतीनां निर्वापितसकलजीवलोकं शीतलत्वमुद्वहतामेव प्रियाविरहदहनदह्यमान

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530