Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 494
________________ _३-३५,३६] यथा तथा ध्वन्यालोकः लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ।। अतिरस्कृतवाच्येभ्योऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्गयस्य कदाचिद्वाच्यप्राधान्येन काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूतव्यङ्गयता, यथोदाहृतम् - अनुरागवती सन्ध्या' इत्येवमादि । तस्यैव स्वयमुक्त्या प्रकाशीकृतत्वेन गुणीभावः यथोदाहृतम् —' सङ्केतकालमनसम् इत्यादि । रसादिस्वरूपव्यङ्गयस्य गुणीभावो रसवदलङ्कारे दर्शितः; तत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवहनप्रवृत्तभृत्यानुयायिराजवत् । व्यङ्गयालङ्कारस्य गुणीभावे दीपकादिर्विषयः । 6 - प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः । ये च तेषु प्रकारोऽयमेव योज्यः सुमेधसा || ३५ ॥ ८९ ये चैतेऽपरिमितस्वरूपा अपि प्रकाशमानास्तथाविधार्थरमणीयाः सन्तो विवेकिनां सुखावहाः काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणीभूतव्यङ्गयो नाम योजनीयः । यथा— लच्छी दुहिदा जामाउओ हरी । तस्स घरिणिआ गंगा । अमिअमिअंका अ सुआ अहो कुडुम्बं महो अहिणो || लक्ष्मीर्दुहिता जामाता हरिस्तस्य गृहिणी गङ्गा । अमृतमृगाङ्कौ च सुतावहो कुटुम्बं महोदधेः ॥ [ इति च्छाया ] त्राच्यालङ्कारवर्गोऽयं व्यङ्गन्यांशानुगमे सति । प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते ॥ ३६ ॥

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530