________________
_३-३५,३६]
यथा
तथा
ध्वन्यालोकः
लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ।। अतिरस्कृतवाच्येभ्योऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्गयस्य कदाचिद्वाच्यप्राधान्येन काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूतव्यङ्गयता, यथोदाहृतम् - अनुरागवती सन्ध्या' इत्येवमादि । तस्यैव स्वयमुक्त्या प्रकाशीकृतत्वेन गुणीभावः यथोदाहृतम् —' सङ्केतकालमनसम् इत्यादि । रसादिस्वरूपव्यङ्गयस्य गुणीभावो रसवदलङ्कारे दर्शितः; तत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवहनप्रवृत्तभृत्यानुयायिराजवत् । व्यङ्गयालङ्कारस्य गुणीभावे दीपकादिर्विषयः ।
6
-
प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः ।
ये च तेषु प्रकारोऽयमेव योज्यः सुमेधसा || ३५ ॥
८९
ये चैतेऽपरिमितस्वरूपा अपि प्रकाशमानास्तथाविधार्थरमणीयाः सन्तो विवेकिनां सुखावहाः काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणीभूतव्यङ्गयो नाम योजनीयः । यथा—
लच्छी दुहिदा जामाउओ हरी । तस्स घरिणिआ गंगा । अमिअमिअंका अ सुआ अहो कुडुम्बं महो अहिणो || लक्ष्मीर्दुहिता जामाता हरिस्तस्य गृहिणी गङ्गा । अमृतमृगाङ्कौ च सुतावहो कुटुम्बं महोदधेः ॥ [ इति च्छाया ]
त्राच्यालङ्कारवर्गोऽयं व्यङ्गन्यांशानुगमे सति । प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते ॥ ३६ ॥