________________
ध्वन्यालोकः
(३-३६
वाच्यालङ्कारवर्गऽयं व्यङ्गचांशस्यालङ्कारस्य वस्तुमात्रस्य वा यथायोगमनुगमे सति च्छायातिशयं विनलक्षणकारैरेकदेशेन दर्शितः । स तु तथारूपः प्रायेण सर्वे एव परीक्ष्यमाणो लक्ष्य निरीक्ष्यते । तथा हि-दीपकसमासोक्त्यादिवदन्येऽप्यलङ्काराः प्रायेण व्यङ्गचालङ्कारान्तरवस्त्वन्तरसंस्पशिनो दृश्यन्ते । यतः प्रथमं तावदतिशयोक्तिगभता सवालङ्कारेषु शक्यक्रिया | कृतैव च सा महाकविभिः कामपि काव्यच्छत्रिं पुष्यति कथं द्यतिशययोगिता स्वविषयौचित्येन क्रियमाणा सती काव्ये नोत्कषमावहेत् । भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तम
·
९०
षा कोक्तिरनयाय विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ॥ इति ॥
तत्रातिशयोक्तियमलङ्कारमधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगोऽन्यस्य त्वलङ्कारमावति सवोलङ्कारशरीरस्वीकरणयोग्यत्वेनाभेदोपचारात्मैव सर्वालङ्काररूपत्ययमेवार्थोऽवगन्तव्यः । तस्याश्चालङ्कारान्तरसंकीर्णत्वं कदाचिद्वाच्यत्वेन कदाचिद्व्यङ्गत्वेन । व्यङ्ग्यत्वमपि कदाचित्प्राधान्येन काचिद्गुणभावन । तत्राद्ये पसे वाच्यालङ्कारभागः । द्वितीये तु ध्वनावन्तर्भावः । तृतीये तु गुणीभूतव्यङ्गरूपता ।
अयं च प्रकारोऽन्येषामप्यलङ्काराणामस्ति तेषां तु न सर्वविषयः । अतिशयोक्तेस्तु सर्वालङ्कारविषयोऽपि सम्भवतीत्ययं विशेषः । येषु चालङ्कारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रूपकोपमातुल्ययोगितानिदर्शनादिषु तेषु गम्यमानधन यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते मऽपि चारुत्वातिशययोगिनः मन्तां गुणीभूतव्यङ्गयस्यैव विषयाः । समासोक्त्याक्षपपर्यायोक्तादिषु तु गम्यमानांशाविनाभावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्गयता निर्विवादेव । तत्र च गुणीभूतव्यङ्गयतायामलङ्काराणां केषाञ्चिदलङ्कारविशेषगर्भतायां नियमः । यथा व्याजस्तुतेः प्रेयोलङ्कारगर्भत्वे । केषाञ्चिदलङ्कार