SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ३-३७) ध्वन्यालोकः मात्रगर्भतायां नियमः । यथा सन्देहादीनामुपमागभैत्व । केषाञ्चिदलङ्काराणां परम्परगर्भतापि मम्भवति । यथा दीपकोपमयोः। तत्र दीपकमुपमागर्भत्वेन प्रसिद्धम् । उपमापि कदाचिद्दीपकच्छायानुयायिनी । यथा मालोपमा । तथा हि · प्रभामहत्या शिग्वयेव दीपः ' इत्यादौ म्फुटेव दीपकच्छाया लक्ष्यते । तदेवं व्यङ्गयांशमंस्पर्शे सति चारुत्वातिशययोगिनो रूपकादयोऽलङ्काराः सर्व एव गुणीभूतव्यङ्गयम्य मार्गः । गुणीभूतव्यङ्गयत्वं च तेषां तथानातीयानां सर्वेषामेवोक्तानुक्तानां मामान्यम् । तल्लक्षणे सर्व एवेते सुलक्षिता भवन्ति । एकैकस्य स्वरूपविशेषकथनेन तु सामान्यलक्षणरहितेन प्रतिपदपाठेनेव शब्दा न शक्यन्ते तत्त्वतो निज्ञातुम्, आनन्त्यात् । अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालङ्काराः । गुणीभूतव्यङ्गयस्य च प्रकारान्तरेणापि व्यङ्गयार्थानुगमलक्षणेन विषयत्वमम्त्येव । तदयं ध्वनिनिष्यन्दरूपो द्वितीयोऽपि महाकविविषयोऽतिरमणीयो लक्षणीय. सहृदयैः । सर्वथा नास्त्येव महृदयहृदयहारिणः काव्यस्य म प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शन मौभाग्यम् । तदिदं काव्यरहस्यं परमिति सूरिभिभीवनीयम् | मुख्या महाकविगिरामलङ्कतिभृतामपि । प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥ ३७॥ अनया सुप्रसिद्धोऽप्यर्थः किमपि कामनीयकमानीयते : तद्यथा विनम्भोत्या मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः केऽपि लीलाविशेषाः । अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः ।। इत्यत्र केपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं वस्त्वक्लिष्टमनन्तमर्पयता का छाया नोपपादिता ।
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy