Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 492
________________ ८७ ३-३३| ध्वन्यालोकः हि प्राणित्वमात्रप्रतिपत्तिफला। द्वितीया तु शब्दविशेषावधारणावमितव्यवहितापि शब्दकरणव्यवहारनिबन्धनम् । ते तु द्वे अप्यनुमेयो विषयः शब्दानाम् । प्रतिपाद्यस्तु प्रयोक्तुरर्थप्रतिपादनसमीहाविषयीकृतोऽर्थः । स च द्विविधः--वाच्यो व्यङ्गयश्च । प्रयोक्ता हि कदाचित्स्वशब्देनार्थ प्रकाशयितुं समीहते कदाचित्स्वशब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् । स तु द्विविधोऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धान्तरेण । विवक्षाविषयत्वं हि तस्यार्थस्य शब्देलिङ्गितया प्रतीयते न तु स्वरूपम् । यदि हि लिङ्गतया तत्र शब्दानां व्यापारः स्यात्तच्छब्दार्थे सम्यमिथ्यात्वाांदेविवादा एव न प्रवर्तेरन् धूमादिलिङ्गानुमितानुमेयान्तरवत् । व्यङ्ग यश्चार्थी वाच्यसामांक्षिततया वाच्यवच्छब्दम्य सम्बन्धी भवत्येव । माक्षादमाक्षाद्भागे हि सम्बन्धस्याप्रयोजकः । वाच्यवाचकभावाश्रयत्वं च व्यञ्जकत्वम्य प्रागत्र दार्शतम् । तस्माद्वक्त्रभिप्रायरूप एवं व्यङ्गये लिङ्गतया शब्दानां व्यापार: । तद्विषयीकृते तु प्रतिपाद्यतया । प्रतीयमाने तस्मिन्नभिप्रायरूपेऽनभिप्रायरूप च वाचकत्वेनैव व्यापारः सम्बन्धान्तरेण वा । न तावद्वाचकवन यथोक्त प्राक् । सम्बन्धान्तरेण व्यन्जकत्वमेव । न च व्यजकत्वं लिङ्गत्वरूपमेत्र आलोकादिष्वन्यथा दृष्टत्वात् । तस्मात्प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् । यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन । प्रतिपाद्यस्य च विषयस्य लिङ्गित्वे तद्विषयाणां विप्रतिपत्तीनां लौकिकैरेव क्रियमाणानामभावः प्रसज्येतेति । एतच्चोक्तमेव । यथा च वाच्यविषये प्रमाणान्तरानुगमेन मम्यक्त्वप्रतीतो क्वचिक्रियमाणायां तस्य प्रमाणान्तरविषयत्वे सत्यपि न शब्दव्यापारविषयताहानि

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530