________________
८७
३-३३|
ध्वन्यालोकः हि प्राणित्वमात्रप्रतिपत्तिफला। द्वितीया तु शब्दविशेषावधारणावमितव्यवहितापि शब्दकरणव्यवहारनिबन्धनम् । ते तु द्वे अप्यनुमेयो विषयः शब्दानाम् । प्रतिपाद्यस्तु प्रयोक्तुरर्थप्रतिपादनसमीहाविषयीकृतोऽर्थः ।
स च द्विविधः--वाच्यो व्यङ्गयश्च । प्रयोक्ता हि कदाचित्स्वशब्देनार्थ प्रकाशयितुं समीहते कदाचित्स्वशब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् । स तु द्विविधोऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धान्तरेण । विवक्षाविषयत्वं हि तस्यार्थस्य शब्देलिङ्गितया प्रतीयते न तु स्वरूपम् । यदि हि लिङ्गतया तत्र शब्दानां व्यापारः स्यात्तच्छब्दार्थे सम्यमिथ्यात्वाांदेविवादा एव न प्रवर्तेरन् धूमादिलिङ्गानुमितानुमेयान्तरवत् । व्यङ्ग यश्चार्थी वाच्यसामांक्षिततया वाच्यवच्छब्दम्य सम्बन्धी भवत्येव । माक्षादमाक्षाद्भागे हि सम्बन्धस्याप्रयोजकः । वाच्यवाचकभावाश्रयत्वं च व्यञ्जकत्वम्य प्रागत्र दार्शतम् । तस्माद्वक्त्रभिप्रायरूप एवं व्यङ्गये लिङ्गतया शब्दानां व्यापार: । तद्विषयीकृते तु प्रतिपाद्यतया । प्रतीयमाने तस्मिन्नभिप्रायरूपेऽनभिप्रायरूप च वाचकत्वेनैव व्यापारः सम्बन्धान्तरेण वा । न तावद्वाचकवन यथोक्त प्राक् । सम्बन्धान्तरेण व्यन्जकत्वमेव । न च व्यजकत्वं लिङ्गत्वरूपमेत्र आलोकादिष्वन्यथा दृष्टत्वात् । तस्मात्प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् । यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन । प्रतिपाद्यस्य च विषयस्य लिङ्गित्वे तद्विषयाणां विप्रतिपत्तीनां लौकिकैरेव क्रियमाणानामभावः प्रसज्येतेति । एतच्चोक्तमेव ।
यथा च वाच्यविषये प्रमाणान्तरानुगमेन मम्यक्त्वप्रतीतो क्वचिक्रियमाणायां तस्य प्रमाणान्तरविषयत्वे सत्यपि न शब्दव्यापारविषयताहानि