Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 479
________________ ७४ ध्वन्यालोकः [३-२८,२९ रमान्तरव्यवहितयोरेकप्रबन्धस्थयोर्वि रोधिता निवर्तत इत्यत्र न काचिद्भ्रान्तिः । यस्मादेकवाक्यम्थयोरपि रमयोरुक्तया नीत्या विरुद्धता निवर्तते । यथा भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरम्यमाणान्सुराङ्गनाश्लिष्टभुनान्तरालाः ।। सशोणितैः कन्यभुजां मुकुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवनिताश्चन्दनवारिमेकैः सुगन्धिभिः कल्पलतादुकूलैः ।। विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमानांल्ललनाङ्गुलीर्भिवीराः स्वदेहान् पतितानपश्यन् ।। इत्यादौ । अत्रहि शृङ्गारबीभत्सयोस्तदङ्गयोवी वीररमव्यवधानेन समावेशो न विरोधी । विरोधमविरोधं च सर्वत्रेत्यं निरूपयेत् । विशेषतस्तु शृङ्गारे सुकुमारतमो बसौ ॥२८॥ यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धेऽन्यत्र च निरूपयेत्सहृदयः; विशेषतस्तु शङ्गारे । स हि रतिपरिपोषात्मकत्वाद्रतश्च स्वल्पेनापि निमित्तेन भङ्गमम्भवात्सुकुमारतमः सर्वेभ्यो रसेभ्यो मनागपि विरोधिसमावेशं न सहते । अवधानातिशयवान् रसे तत्रैव सत्कविः। भवेत्तस्मिन् प्रमादो हि झटित्येवोपलक्ष्यते ॥ २९ ॥ तत्रैव च रसे सर्वेभ्योऽपि रसेम्यः सौकुमार्यातिशययोगिनि कविरवधानवान् प्रयत्नवान्स्यात् । तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवावज्ञाविषयता भवति । शृङ्गाररमो हि संसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनी

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530