Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 483
________________ ध्वन्यालोकः विरोधिन्यभिधेयान्तरविलक्षणे रसादौ न प्रतीयते । क्वचित्त लक्ष्यत एव यथानुरणनरूपव्यङ्गयप्रतीतिषु । तत्रापि कथमिति चेदुच्यते – अर्थशक्तिमूलानुरणनरूपव्यङ्गये ध्वनौ तावदभिधेयस्य तत्सामध्योक्षिप्तस्य चार्थस्याभिधेयान्तरविलक्षणतयात्यन्तविलक्षणे ये प्रतीती तयोरशक्यनिह्नवो निमित्तनिमित्तिभाव इति स्फुटमेव तत्र पौर्वापर्यम् । यथा प्रथमोद्याने प्रतीयमानार्थसिद्ध्यर्थमुदाहृतासु गाथासु । तथाविध च विषये वाच्यव्यङ्गययोरत्यन्तविलक्षणत्वाद्यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तुम | शब्दशक्तिमूलानुरणनरूपव्यङ्गये तु ध्वनौ- ७८ गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु [२-३३ इत्यादावर्यद्रयप्रतीतौ शाब्द्यामर्थद्वयस्योपमानोपमेयभावप्रतीतिरुपमा वाचक पदविरहे सत्यर्थमामर्थ्यादाक्षिप्तेति तत्रापि सुलक्ष्यमभिधेयव्यङ्गचालङ्कारप्रतीत्योः पौर्वापर्यम् । पदप्रकाशशब्दशक्तिमूलानुरणनरूपव्यङ्गयेऽपि ध्वनौ विशेषणपदस्योभयार्थसम्बन्धयोम्यस्य योजकं पदमन्तरेण योजनमशाब्दमप्यर्थादवस्थितमित्यत्रापि पूर्वत्रदभिधेयतत्सामर्थ्याक्षिप्तालङ्कारमात्रप्रतीत्योः सुस्थितमेव पौर्वापर्यम् । आर्थ्यपि च प्रतिपत्तिस्तथाविधे विषये उभयार्थसम्बन्धयोम्यैशब्दसामर्थ्यप्रसाविति शब्दशक्तिमूला कल्प्यते । 1 अविवक्षितवाच्यस्य तु वने प्रसिद्धस्वविषयवैमुख्यप्रतीतिपूर्वकमेवार्थान्तरप्रकाशनमिति नियमभावी क्रमः । तत्राविवक्षितवाच्यत्वादेव वाच्येन सह व्यङ्गयस्य क्रमप्रतीतिविचारो न कृतः । तस्मादभिधानाभिधेयप्रतीत्योरिव वाच्यव्यङ्गचप्रन।त्योर्निमित्तनिमित्तिभावान्नियमभावी क्रमः । स तूक्तयुक्त्या क्वचिलक्ष्यते कचिन्न लभ्यते ॥ तदेवं व्यञ्जकमुखेन ध्वनिप्रकारेषु निरूपितेषु कश्चिद्ब्रूयात् किमिदं

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530