Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 486
________________ ३-३३]] ध्वन्यालोकः इति । यत्रापि तस्य प्राधान्यं तत्रापि किमिति तस्य स्वरूपमपद्भूयते । एवं तावद्वाचकत्वादन्यदेव व्यञ्जकत्वम्; इतश्च वाचकत्वान्यञ्जकत्वस्यान्यत्वं यद्वाचकत्वं शब्दैकाश्रयमितरत्तु शब्दाश्रयमाश्रयं च शब्दार्थयोद्वयोरपि व्यञ्जकत्वस्य प्रतिपादितत्वात् । गुणवृत्तिस्तूपचारेण लक्षणया चोभयाश्रयापि भवति । किन्तु ततोऽपि ... व्यञ्जकत्वं स्वरूपतो विषयतश्च भिद्यते । रूपभेदस्तावदयम्-यदमुख्यतया व्यापारो गुणवृत्तिः प्रसिद्धा । व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः । न ह्याद्व्यङ्गयत्रयप्रतीतिर्या तस्या अमुल्यत्वं मनागपि लक्ष्यते । __ अयं चान्यः स्वरूपभेदः -- यद्गुणवृत्तिरमुख्यत्वेन व्यवस्थितं वाचकत्वमेवोच्यते । व्यञ्जकत्वं तु वाचकत्वादत्यन्तं विभिन्नमेव । एतच्च प्रतिपादितम् । अयं चापरो रूपभेदो यद्गुणवृत्तौ यदार्थोऽर्थान्तरमुपलक्षयति, तदोपलक्षणीयार्थात्मना परिणत एवासौ :सम्पद्यते । यथा .. गङ्गायां घोषः" इत्यादौ । व्यञ्जकत्वमार्गे तु यदार्थोऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयनेवासावन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् । यथा - · लीलाकमलपत्राणि गणयामास पार्वती' इत्यादौ । यदि च यत्रोतिरस्कृतम्बप्रतीतिरर्थोऽर्थान्तरं लक्षयति तत्र लक्षणाव्यवहारः क्रियते, तदेवं सति लक्षणैव मुख्यः शब्दव्यापार इति प्राप्तम् । यस्मात्प्रायेण वाक्यानां वाच्यव्यतिरिक्ततात्पर्यविषयार्थीवभासित्वम् । ननु त्वत्पक्षेऽपि यदार्थो व्यङ्गयत्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः । उच्यते-प्रकरणाद्यवच्छिन्नशब्दवशेनैवार्थस्य तथाविधं व्यञ्जकत्वमिति शब्दस्य तत्रोपयोगः कथमपद्भूयते । विषयभेदोऽपि गुणवृत्तिव्यञ्जकत्वयोः स्पष्ट एव । यतो व्यञ्जकत्वस्य रसादयोऽलङ्कारविशेषा व्यङ्गयरूपावच्छिन्नं वस्तु चेति त्रयं विषयः । तत्र रसादिप्रतीतिगुंगवृत्तिरिति न केनचिदुच्यते, न च शक्यते वक्तुम् । व्यङ्गया ध्व-६

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530