________________
३-३३]]
ध्वन्यालोकः इति । यत्रापि तस्य प्राधान्यं तत्रापि किमिति तस्य स्वरूपमपद्भूयते । एवं तावद्वाचकत्वादन्यदेव व्यञ्जकत्वम्; इतश्च वाचकत्वान्यञ्जकत्वस्यान्यत्वं यद्वाचकत्वं शब्दैकाश्रयमितरत्तु शब्दाश्रयमाश्रयं च शब्दार्थयोद्वयोरपि व्यञ्जकत्वस्य प्रतिपादितत्वात् ।
गुणवृत्तिस्तूपचारेण लक्षणया चोभयाश्रयापि भवति । किन्तु ततोऽपि ... व्यञ्जकत्वं स्वरूपतो विषयतश्च भिद्यते । रूपभेदस्तावदयम्-यदमुख्यतया
व्यापारो गुणवृत्तिः प्रसिद्धा । व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः । न ह्याद्व्यङ्गयत्रयप्रतीतिर्या तस्या अमुल्यत्वं मनागपि लक्ष्यते ।
__ अयं चान्यः स्वरूपभेदः -- यद्गुणवृत्तिरमुख्यत्वेन व्यवस्थितं वाचकत्वमेवोच्यते । व्यञ्जकत्वं तु वाचकत्वादत्यन्तं विभिन्नमेव । एतच्च प्रतिपादितम् । अयं चापरो रूपभेदो यद्गुणवृत्तौ यदार्थोऽर्थान्तरमुपलक्षयति, तदोपलक्षणीयार्थात्मना परिणत एवासौ :सम्पद्यते । यथा .. गङ्गायां घोषः" इत्यादौ । व्यञ्जकत्वमार्गे तु यदार्थोऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयनेवासावन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् । यथा - · लीलाकमलपत्राणि गणयामास पार्वती' इत्यादौ । यदि च यत्रोतिरस्कृतम्बप्रतीतिरर्थोऽर्थान्तरं लक्षयति तत्र लक्षणाव्यवहारः क्रियते, तदेवं सति लक्षणैव मुख्यः शब्दव्यापार इति प्राप्तम् । यस्मात्प्रायेण वाक्यानां वाच्यव्यतिरिक्ततात्पर्यविषयार्थीवभासित्वम् ।
ननु त्वत्पक्षेऽपि यदार्थो व्यङ्गयत्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः । उच्यते-प्रकरणाद्यवच्छिन्नशब्दवशेनैवार्थस्य तथाविधं व्यञ्जकत्वमिति शब्दस्य तत्रोपयोगः कथमपद्भूयते ।
विषयभेदोऽपि गुणवृत्तिव्यञ्जकत्वयोः स्पष्ट एव । यतो व्यञ्जकत्वस्य रसादयोऽलङ्कारविशेषा व्यङ्गयरूपावच्छिन्नं वस्तु चेति त्रयं विषयः । तत्र रसादिप्रतीतिगुंगवृत्तिरिति न केनचिदुच्यते, न च शक्यते वक्तुम् । व्यङ्गया
ध्व-६