________________
ध्वन्यालोकः
(३-३३
यित्वमर्थान्तरावगमहेतुत्वं च शब्दम्य यत्तयोः म्पष्ट एव भेदः । विशेषश्चेन्न तहीदानीमवगमनम्याभिधेयमामर्थ्याक्षिप्तम्यार्थान्तरम्य वाच्यत्वव्यपदेश्यता । शब्दव्यापारगोचरत्वं तु तस्यास्माभिरिप्यत एव, तत्तु व्यङ्गयत्वेनैव न वाच्यत्वेन । प्रसिद्भाभिधानान्तरसम्बन्धयोग्यत्वेन च तम्यार्थान्तरम्य प्रतीतेः शब्दान्तरेण म्वार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता ।
न च पदार्थवाक्याथन्यायो वाच्यव्यङ्गययोः । यतः पदार्थप्रतीति रसत्यैवेति कैश्चिद्विद्वद्भिरास्थितम् । यैरप्यमत्यत्वमम्या नाम्युपेयते नाक्यार्थपदार्थयोर्घटतदुपादानकारणन्यायोऽभ्युपगन्तव्यः । तथाहि घटे निष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत् । नत्वेष वाच्यव्यङ्ग्ययायायः । न हि व्यङ्गये प्रतीयमाने वाच्यबुद्धिर्दूरीभवति, वाच्यावभासाविनाभावेन तस्य प्रकाशनात् । तस्माद्घटप्रदीपन्यायस्तयोः: यथैव हि प्रर्दापद्वारेण घटप्रतीतावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वन्यायप्रतीतौ वाच्यावभासः । यत्तु प्रथमोद्योते • यथा पदार्थद्वारेण ' इत्याधुक्तं तदुपायत्वमात्रात्साम्यविवक्षया ।
नन्वेवं युगपदयद्वययोगित्वं वाक्यस्य प्राप्तं तद्भावे च तस्य वाक्यतेव विघटते. तम्या एकार्थ्यलक्षणत्वात् : नैष दोषः: गुणप्रधानभावेन तयोर्व्यवस्थानात् । व्यङ्गयम्य हि क्वचित्प्राधान्यं वाच्यस्योपसर्जनभावःक्वचिद्वाच्यस्य प्राधान्यमपरम्य गुणभावः । तत्र व्यङ्गयप्राधान्ये ध्वनिरित्युक्तमेषः वाच्यप्रावान्य नु प्रकागन्तरं निर्देश्यते । तस्मास्थितमेतत् -- व्यङ्गयपरत्वेऽपि काव्यम्य न व्यङ्गयम्याभिधयत्वमपि तु व्यङ्गचत्वमेव । .
किं च व्यङ्गयस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद्भवद्भिर्नाभ्युपगन्तव्यमतत्परत्वाच्छन्दम्य । तदस्ति तावद्व्यङ्गयः शब्दानां कश्चिद्विषय