________________
ध्वन्यालोकः
[३-३३ लङ्कारप्रतीतिरपि तथैव । वस्तुचामन्वप्रतीतये स्वशब्दानभिधयत्वेन यत्प्रतिपादयितुमिप्यते तद व्यङ्गयम् । तच्च न मर्व गुणवृत्तेर्विषयः. प्रमिद्ध्यनुरोधाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् । तथोक्तं प्राक् । यदपिच गुणवृत्तर्विषयस्तदपि च व्यञ्जकन्वानुप्रवेशेन । तस्माद्गुणवृत्तेपि व्यञ्जकत्वस्यात्यन्नविलक्षणत्वम् । वाचकत्वगुणवृत्तिविलक्षणस्यापि च तम्य तदुभयाश्रयत्वेन व्यवस्थानम् ।
व्यञ्जकत्वं हि क्वचिद्वारकत्वाश्रयेण व्यवतिष्ठते. यथा विवक्षितान्यपरवाच्ये वनौ । क्वचित्तु गुणवृत्त्याश्रयेण यथा अविवक्षितवाच्ये ध्वनौ । तदुभयाश्रयत्वप्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदावुपन्यस्तौ। तदुभयाश्रितत्वाच तदेकरूपत्वं तस्य न शक्यते वक्तुम् । यस्मान्न तद्वाचकत्वैक रूपमेव. क्वचिलक्षणाश्रयेण वृत्तेः । न च लक्षणेकरूपमेवान्यत्र वाचकत्वाश्रयण चवम्यानात् । न चोभयधर्मत्वेनैव तदेकैकरूपं न भवति । यावद्वाचकत्व सगादिरूपरहितशब्दधमन्वेनापि । तथाहि गीतध्वनीनामपि व्यञ्जकत्व मम्ति ग्मादिविषयम् । न च तेषां वाचकत्वं लक्षणा वा कथञ्चिलक्ष्यते । शब्दादन्यत्रापि विषये व्यन्जकत्वम्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्त वक्तुम । यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वेऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच्छब्दस्यैव प्रकारत्वेन कस्मान्न परिकल्प्यते।
तदेवं शाब्दे व्यवहारे त्रयः प्रकाराः – वाचकत्वं गुणवृत्तिय॑ञ्जकत्वं च। तत्र व्यञ्जकत्वे यदा व्यङ्गयप्राधान्यं तदा ध्वनिः, तस्य चाविवक्षितवाच्या विवक्षितान्यपरवाच्य धेति द्वौ प्रभेदावनुकान्तौ प्रथमतरं तौ सविस्तरं निणाती।
अन्यो ब्रूयात् -ननु विवक्षितान्यपरवाच्ये ध्वनौ गुणवृत्तिता नास्तीति