________________
३-३३)
ध्वन्यालोकः
यदुच्यते तद्युक्तम् । यस्माद्वाच्यवाचकप्रतीतिपूर्विका यत्रार्थान्तरप्रतिपत्तिस्तत्र कथं गुणवृत्तिव्यवहारः : न हि गुणवृत्तौ यदा निमित्तेन केनचिद्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतस्वार्थः यथा अग्निर्माणवक: इत्यादौ यदा स्वाथमंशेनापरित्यजंस्तत्सम्बन्धद्वारेण विषयान्तरमाक्रामति यथा
वा
‘ गङ्गायां घोषः ' इत्यादौ तदाविवक्षितवाच्यत्वमुपपद्यते । अत एव च विवक्षितान्यपरवाच्ये ध्वनौं वाच्यवाचकयोर्द्वयोरपि स्वरूपप्रतीतिरथावगमनं च दृश्यत इति व्यञ्जकत्वव्यवहारो युक्त्यनुरोधी । स्वरूपं प्रकाशयन्नेव परावभासको व्यञ्जक इच्युच्यते । तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुणवृत्तिव्यवहारो नियमेनैव न शक्यते कर्तुम् । अविवक्षितवाच्यस्तु ध्वनिगुणवृत्तेः कथं भिद्यते । तस्य प्रभेदद्वयं गुणवृत्तिप्रभेदद्वयरूपता लक्ष्यत एवं
यतः ।
८३
—
अयमपि न दोषः । यस्मादविवक्षितवाच्या ध्वनिर्गुणवृत्तिमार्गाश्रयोऽपि भवति न तु गुणवृत्तिरूप एव । गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यते । व्यञ्जकत्वं च ययोक्तचारुत्वहेतुं व्यङ्गयं विना न व्यवतिष्ठते । गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्गयमात्राश्रयेण चामेदोपचाररूपा सम्भवति यथा • तीक्ष्णत्वादग्निर्माणवकः . ' आह्लादकत्वाचन्द्र एवास्या मुखमित्यादी । यथा च' प्रिये जने नास्ति पुनरुक्तम् इत्यादौ । यापि लक्षणरूपा गुणवृत्तिः माप्युपलक्षणीयार्थसंवन्धमात्राश्रयेण चारुरूपव्यङ्गयप्रतीतिं विनापि सम्भवत्येव, यथा-· मञ्चाः क्रोशन्तीत्यादौ विषये ।
यत्र तु सा चारुरूपव्यङ्गयप्रतीतिहेतुस्तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् । असम्भविना चार्थेन यत्र व्यवहारः यथा सुवर्णपुष्पां पृथिवीम् ' इत्यादौ तत्र चारुरूपव्यङ्गयप्रतीतिरेव प्रयोजिकेति तथाविधेपि विषये गुणवृत्तौ सत्यामपि ध्वनिव्यवहार एव युक्त्यनुरोवी. तस्मादविवक्षितवाच्ये ध्वनो द्वयारपि प्रभेदयोव्यञ्जकत्वविशेषाविशिष्टा गुणवृत्ति तु