________________
ध्वन्यालोकः
विरोधिन्यभिधेयान्तरविलक्षणे रसादौ न प्रतीयते ।
क्वचित्त लक्ष्यत एव यथानुरणनरूपव्यङ्गयप्रतीतिषु । तत्रापि कथमिति चेदुच्यते – अर्थशक्तिमूलानुरणनरूपव्यङ्गये ध्वनौ तावदभिधेयस्य तत्सामध्योक्षिप्तस्य चार्थस्याभिधेयान्तरविलक्षणतयात्यन्तविलक्षणे ये प्रतीती तयोरशक्यनिह्नवो निमित्तनिमित्तिभाव इति स्फुटमेव तत्र पौर्वापर्यम् । यथा प्रथमोद्याने प्रतीयमानार्थसिद्ध्यर्थमुदाहृतासु गाथासु । तथाविध च विषये वाच्यव्यङ्गययोरत्यन्तविलक्षणत्वाद्यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तुम | शब्दशक्तिमूलानुरणनरूपव्यङ्गये तु ध्वनौ-
७८
गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु
[२-३३
इत्यादावर्यद्रयप्रतीतौ
शाब्द्यामर्थद्वयस्योपमानोपमेयभावप्रतीतिरुपमा वाचक
पदविरहे सत्यर्थमामर्थ्यादाक्षिप्तेति तत्रापि सुलक्ष्यमभिधेयव्यङ्गचालङ्कारप्रतीत्योः पौर्वापर्यम् ।
पदप्रकाशशब्दशक्तिमूलानुरणनरूपव्यङ्गयेऽपि ध्वनौ विशेषणपदस्योभयार्थसम्बन्धयोम्यस्य योजकं पदमन्तरेण योजनमशाब्दमप्यर्थादवस्थितमित्यत्रापि पूर्वत्रदभिधेयतत्सामर्थ्याक्षिप्तालङ्कारमात्रप्रतीत्योः सुस्थितमेव पौर्वापर्यम् । आर्थ्यपि च प्रतिपत्तिस्तथाविधे विषये उभयार्थसम्बन्धयोम्यैशब्दसामर्थ्यप्रसाविति शब्दशक्तिमूला कल्प्यते ।
1
अविवक्षितवाच्यस्य तु वने प्रसिद्धस्वविषयवैमुख्यप्रतीतिपूर्वकमेवार्थान्तरप्रकाशनमिति नियमभावी क्रमः । तत्राविवक्षितवाच्यत्वादेव वाच्येन सह व्यङ्गयस्य क्रमप्रतीतिविचारो न कृतः । तस्मादभिधानाभिधेयप्रतीत्योरिव वाच्यव्यङ्गचप्रन।त्योर्निमित्तनिमित्तिभावान्नियमभावी क्रमः । स तूक्तयुक्त्या क्वचिलक्ष्यते कचिन्न लभ्यते ॥
तदेवं व्यञ्जकमुखेन ध्वनिप्रकारेषु निरूपितेषु कश्चिद्ब्रूयात् किमिदं