Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 461
________________ ध्वन्यालोकः [३-१२,१३,१४ सन्धिसन्ध्यङ्गघटनं म्साभिव्यक्त्यपेक्षया ॥ न तु केवलया शास्त्रस्थितिसम्पादनेच्छया ॥१२॥ उद्दीपनप्रशमने यथावसरमन्तरा।। रसस्यारब्धविश्रान्तेरनुसन्धानमङ्गिनः ॥ १३ ॥ अलङ्कन्तीनां शक्तावप्यानुरूप्येण योजनम् । प्रवन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥१४॥ प्रबन्धोऽपि रमादीनां व्यञ्जक इत्युक्तः तम्य व्यञ्जकल्वे निबन्धनम् । प्रथमं तावद्विभावभावानुभावमञ्चा?चित्यचारुणः कथाशरीरस्य विधिर्यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचितो विभावो भावोऽनुभावः सञ्चारी वा तदौचित्यचारुणः कथाशरीरम्य विधियञ्जकत्वे निबन्धनमेकम् । तत्र विभावचित्यं तावत्प्रसिद्धम् । भावौचित्यं तु प्रकृत्यौचित्यात् । प्रकृतिघुत्तममध्यमाधमभावेन दिव्यमानुपादिभावेन च विभेदिनी । तां यथायथमनुमृत्यामङ्कीर्णः स्थायी भाव उपनिबध्यमान औचित्यभाग् भवति । अन्यथा तु केवलमानुषाश्रयेण दिव्यस्य केवलदिव्याश्रयेण वा केवलमानुषस्यो - त्माहादय उपनिबध्यमाना अनुचिता भवन्ति । तथा च केवलमानुषस्य रानादवणने सप्तार्णवलङ्घनादिलक्षणा व्यापारा उपनिबध्यमानाः सौष्ठवभृतोऽपि नारसा एव नियमेन भवन्ति, तत्र त्वनौचित्यमेव हेतुः । ननु नागलोकगमनादयः सातवाहनप्रभृतीनां श्रूयन्ते, तदलोकसामान्यप्रभावातिशयवर्णने किमनौचित्यं सर्वोर्वीभरणक्षमाणां क्षमाभुनामिति । नेतदस्तिः न वयं ब्रूमो यत्प्रभावातिशयवर्णनमनुचितं राज्ञाम्, किं तु केवलमानुषाश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यमौचित्यं न योजनीयम् । दिव्यमानुषायां तु कथायामुभयमौचित्ययोजनमविरुद्धमेव । यथा पाण्डवादिकथायाम । मातवाहनादिषु तु यषु यावदपदानं श्रूयते तेषु तावन्मात्रमनुगम्य

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530