________________
ध्वन्यालोकः
[३-१२,१३,१४
सन्धिसन्ध्यङ्गघटनं म्साभिव्यक्त्यपेक्षया ॥ न तु केवलया शास्त्रस्थितिसम्पादनेच्छया ॥१२॥ उद्दीपनप्रशमने यथावसरमन्तरा।। रसस्यारब्धविश्रान्तेरनुसन्धानमङ्गिनः ॥ १३ ॥ अलङ्कन्तीनां शक्तावप्यानुरूप्येण योजनम् । प्रवन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥१४॥
प्रबन्धोऽपि रमादीनां व्यञ्जक इत्युक्तः तम्य व्यञ्जकल्वे निबन्धनम् । प्रथमं तावद्विभावभावानुभावमञ्चा?चित्यचारुणः कथाशरीरस्य विधिर्यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचितो विभावो भावोऽनुभावः सञ्चारी वा तदौचित्यचारुणः कथाशरीरम्य विधियञ्जकत्वे निबन्धनमेकम् । तत्र विभावचित्यं तावत्प्रसिद्धम् । भावौचित्यं तु प्रकृत्यौचित्यात् । प्रकृतिघुत्तममध्यमाधमभावेन दिव्यमानुपादिभावेन च विभेदिनी । तां यथायथमनुमृत्यामङ्कीर्णः स्थायी भाव उपनिबध्यमान औचित्यभाग् भवति । अन्यथा तु केवलमानुषाश्रयेण दिव्यस्य केवलदिव्याश्रयेण वा केवलमानुषस्यो - त्माहादय उपनिबध्यमाना अनुचिता भवन्ति । तथा च केवलमानुषस्य रानादवणने सप्तार्णवलङ्घनादिलक्षणा व्यापारा उपनिबध्यमानाः सौष्ठवभृतोऽपि नारसा एव नियमेन भवन्ति, तत्र त्वनौचित्यमेव हेतुः ।
ननु नागलोकगमनादयः सातवाहनप्रभृतीनां श्रूयन्ते, तदलोकसामान्यप्रभावातिशयवर्णने किमनौचित्यं सर्वोर्वीभरणक्षमाणां क्षमाभुनामिति । नेतदस्तिः न वयं ब्रूमो यत्प्रभावातिशयवर्णनमनुचितं राज्ञाम्, किं तु केवलमानुषाश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यमौचित्यं न योजनीयम् । दिव्यमानुषायां तु कथायामुभयमौचित्ययोजनमविरुद्धमेव । यथा पाण्डवादिकथायाम । मातवाहनादिषु तु यषु यावदपदानं श्रूयते तेषु तावन्मात्रमनुगम्य