________________
३-१४]
ध्वन्यालोकः
५७
मानमनुगुणत्वेन प्रतिभासते । व्यतिरिक्तं तु तेषामेवोपनिबध्यमानमनुचितम् ।
तदयमत्र परमार्थ:
अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम | प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ||
अत एव च भरते प्रख्यात वस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च नाटकस्यावश्यकर्तव्यतयोपन्यस्तम् । तेन हि नायकौचित्यानौचित्यविषये कचिर्न व्यामुह्यति । यस्तूत्पाद्यवस्तु नाटकादि कुर्यात्तस्याप्रसिद्धा नुचितनायकस्वभाववर्णने महान् प्रमादः ।
-
ननुत्साहादिभावने कथञ्चिद्दिव्यमानुष्याद्यौचित्यपरीक्षा क्रियत तत्क्रियताम्, रत्यादौ तु किं तया प्रयोजनम् : रतिर्हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानामपि वर्णनीयेति स्थितिः । नैवम्; तत्रौचित्यातिक्रमेण सुतरां दोषः । तथा ह्यधमप्रकृत्यौचित्येनोत्तमप्रकृतेः शृङ्गारोपनिबन्धने का भवेन्नो पहास्यता | त्रिविधं प्रकृत्यैौचित्यं भारतवर्षेऽप्यस्ति शृङ्गारविषयम् । यत्तु दिव्यमौचित्य तत्तत्रानुपकारकमेवेति चेत् न वयं दिव्यमौचित्यं शृङ्गारविषयमन्यत्किञ्चिद्ब्रूमः । किंः तर्हि ? भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शङ्गारोपनिबन्धस्तथा दिव्याश्रयोऽपि शोभते । न च राजादिषु ग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत्परिहर्तव्यम् । नाटकादेरभिनेयार्थत्वादभिनयस्य च सम्भोगशृङ्गारविषयस्यासभ्यत्वात्तत्र परिहार इति चेन्नः यद्यभिनयस्यैवंविषयम्यामभ्यता तत्काव्यस्यैवविषयस्य सा केन निवार्यते ? तस्मादभिनेयार्थेऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिनायिकाभिः सह ग्राम्यमम्भोगवर्णनं तत्पित्रो स्मम्भोगवर्णनमिव सुतरामसभ्यम् । तथैवोत्तमदेवतादिविषयम् ।
न च सम्भोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः यावदन्येऽपि