________________
ध्वन्यालोकः
[३-१४ प्रभेदाः परस्परप्रमदशनादयः मम्भवन्ति. त कम्मादुत्तमप्रकृतिविषये न वर्ण्यन्ते ? तम्मादुत्साहवद्रतावपि प्रकृत्यौचित्यमनुसतव्यम् । तथैव विम्मयादिषु । यत्त्वेवंविधे विषये महाकवीनामप्यसमीक्ष्यकारिता लक्ष्ये दृश्यते म दोष एव । म तु शक्तितिरस्कृतत्वात्तेषां न लक्ष्यत इत्युक्तमेव । अनुभवौचित्यं तु भरताही प्रमिद्धमेव ।
इयत्तच्यते – भरतादिविरचितां स्थितिं वानुवर्तमानेन महाकविप्रबन्धावा पर्यालोचयता म्वप्रतिभां वानुमरता कविनावहितचेतसा भूत्वा विभावाद्यौचित्यभ्रंशपरित्यागे पर: प्रयत्नो विधेयः औचित्यवतः कथाशरीरम्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञक इत्यनेनैतत्प्रतिपादयति – यदितिहासादिषु कथासु रमवतीषु विविधासु मतीष्वपि यत्तत्र विभावाद्यौचित्यवत्कथाशरीरं तदेव ग्राह्यं नेतरत् । वृत्तादपि च कथाशरीरादुत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यम् । तत्र ह्यनवधानात्सवलतः कवेरव्युत्पत्तिमम्भावना महती भवति । परिकर श्लोकश्चात्र
कथाशरीरमुत्पाद्यवस्तु कायं तथातथा ।
यथा रसमयं सर्वमेव तत्प्रतिभासते ।।
तत्र चाभ्युपायः सम्यविभावाद्यौचित्यानुसरणम् । तच्च दर्शितमेव । किञ्च
मन्ति सिद्धरसप्रख्या ये च रामायणादयः ।
कथाश्रया न तैर्योज्या स्वेच्छा रसविरोधिनी ।।
तेनु हि कथाश्रयेषु तावत्स्वेच्छैव न योज्या । यदुक्तम्- कथामार्गे न चातिक्रमः । स्वेच्छापि वा यदि योज्यते, रसविरोधिनी न योज्या ।
इदमपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् । इतिवृत्तवशायातां कथञ्चिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकयोन्नयो