________________
३-९,१०,११]
म्वन्यालोकः
यदेतदौचित्यं वक्तृवाच्यगतं सङ्घटनाया नियामकमुक्तमेतदेव गद्य छन्दोनियमवर्जितेऽपि विषयापेक्षं नियमहेतुः । तथा ह्यत्रापि यदा कविः कविनिबद्धो वा वक्ता रसभावरहितस्तदा कामचारः । रसभावसमन्विते तु वक्तरि पूर्वोक्तमेवानुसतव्यम् । तत्रापि च विषयौचित्यमेव । आख्यायिकायां तु भूम्ना मध्यमसमासादीर्घसमासे एव सङ्घटने । गद्यस्य विकटबन्धाश्रयेण च्छायावत्वात् । तत्र च तस्य प्रकृष्यमाणत्वात् । कथायां तु विकटबन्धप्राचुर्येऽपि गद्यस्य रसबन्धोक्तमौचित्यमनुसतव्यम् ।
रसबन्धोक्तमौचित्यं भाति सर्वत्र संश्रिता । रचना विषयापेक्षं तत्तु किश्चिविभेदवत् ॥ ९ ॥
अथवा पद्यवद्द्यबन्धेऽपि रसबन्धोक्तमौचित्यं सर्वत्र संश्रिता रचना भवति । तत्तु विषयापेक्षं किञ्चिद्विशेषवद्भवति, न तु सर्वाकारम् । तथा हि गद्यबन्धेऽप्यतिदीर्घसमासा रचना न विप्रलम्भशृङ्गारकरुणयोराख्यायिकायामपि शोभते । नाटकादावप्यसमासैव न रौद्रवीरादिवर्णने । विषयापेक्षं त्वौचित्यं प्रमाणतोऽपकृष्यते प्रकृप्यते च । तथा ह्याख्यायिकायां नात्यन्तमसमामा स्वविषयेऽपि नाटकादो नातिदधिसमामा चेति सङ्घटनाया दिगनुमतव्या ।
इदानीमलक्ष्यक्रमव्यङ्गयो ध्वनिः प्रबन्धात्मा रामायणमहाभारताद प्रकाशमानः प्रसिद्ध एव । तस्य तु यथा प्रकाशनं तत्प्रतिपाद्यते । ---
विभावभावानुभावसञ्चायौँचित्यचारुणः । विधिः कथाशरीरस्य वृत्तस्योत्पक्षितस्य वा ॥१०॥ इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिम् । उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोनयः ॥ ११ ॥