Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
३-१८,१९]
ध्वन्यालोकः प्रबन्धे मुक्तके वापि रमभावनिबन्धनं प्रत्यादृतमनाः कविर्विरोधिपरिहारे परं यत्नमादधीत । अन्यथा त्वस्य रसमयः श्लोक एकोऽपि मम्यङ्न सम्पद्यते ।
कानि पुनस्तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानीत्युच्यतेविरोधिरससम्बन्धिविभावादिपरिग्रहः । विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ।। १८ ।। अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् । परिपाषं गतस्यापि पौनःपुन्येन दीपनम् । रसस्य स्याविरोधाय वृत्यनौचित्यमेव च ॥ १९ ॥
प्रस्तुतरसापेक्षया विरोधी यो रसस्तस्य सम्बन्धिनां विभावानुभावव्यभिचारिणां परिग्रहो रसविरोधहेतुकः सम्भावनीयः । तत्र विरोधिरसविभावपरिग्रहो यथा शान्तरमविभावेषु तद्विभावतयैव निरूपितेष्वनन्तरमेव शृङ्गारादिविभाववर्णने । विरोधिरसभावपरिग्रहो यथा प्रियं प्रति प्रणयकलहकुपितासु कामिनीषु वैराग्यकथाभिरनुनये । विरोधिरसानुभावपरिग्रहो यथा प्रणयकुपितायां प्रियायामप्रमीदन्त्यां नायकस्य कोपावेशविवशस्य रौद्रानु भावर्णने ।
अयं चान्यो रसभङ्गहेतुर्यत्प्रस्तुतरसापेक्षया वस्तुनोऽन्यस्य कथञ्चिदन्वितस्यापि विस्तरेण कथनम् । यथा विप्रलम्भशृङ्गारे नायकम्य कस्यचिद्व
यितुमुपक्रान्ते कवेयमकाद्यलङ्कारनिबन्धनरसिकतया महता प्रबन्धेन पर्वतादिवर्णनम् । अयं चापरो रसभङ्गहेतुरवगन्तव्यो यदकाण्ड एव विच्छित्तिः रसस्याकाण्ड एव च प्रकाशनम् । तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित्गृहणीयसमागमया नायिकया कयाचित्परां परिपोषपदवी प्राप्ते प्रकारे विदिते च परस्परानुरागे समागमोपायचिन्तोचितं व्यवहारमुत्सृज्य

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530