SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ३-१८,१९] ध्वन्यालोकः प्रबन्धे मुक्तके वापि रमभावनिबन्धनं प्रत्यादृतमनाः कविर्विरोधिपरिहारे परं यत्नमादधीत । अन्यथा त्वस्य रसमयः श्लोक एकोऽपि मम्यङ्न सम्पद्यते । कानि पुनस्तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानीत्युच्यतेविरोधिरससम्बन्धिविभावादिपरिग्रहः । विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ।। १८ ।। अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् । परिपाषं गतस्यापि पौनःपुन्येन दीपनम् । रसस्य स्याविरोधाय वृत्यनौचित्यमेव च ॥ १९ ॥ प्रस्तुतरसापेक्षया विरोधी यो रसस्तस्य सम्बन्धिनां विभावानुभावव्यभिचारिणां परिग्रहो रसविरोधहेतुकः सम्भावनीयः । तत्र विरोधिरसविभावपरिग्रहो यथा शान्तरमविभावेषु तद्विभावतयैव निरूपितेष्वनन्तरमेव शृङ्गारादिविभाववर्णने । विरोधिरसभावपरिग्रहो यथा प्रियं प्रति प्रणयकलहकुपितासु कामिनीषु वैराग्यकथाभिरनुनये । विरोधिरसानुभावपरिग्रहो यथा प्रणयकुपितायां प्रियायामप्रमीदन्त्यां नायकस्य कोपावेशविवशस्य रौद्रानु भावर्णने । अयं चान्यो रसभङ्गहेतुर्यत्प्रस्तुतरसापेक्षया वस्तुनोऽन्यस्य कथञ्चिदन्वितस्यापि विस्तरेण कथनम् । यथा विप्रलम्भशृङ्गारे नायकम्य कस्यचिद्व यितुमुपक्रान्ते कवेयमकाद्यलङ्कारनिबन्धनरसिकतया महता प्रबन्धेन पर्वतादिवर्णनम् । अयं चापरो रसभङ्गहेतुरवगन्तव्यो यदकाण्ड एव विच्छित्तिः रसस्याकाण्ड एव च प्रकाशनम् । तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित्गृहणीयसमागमया नायिकया कयाचित्परां परिपोषपदवी प्राप्ते प्रकारे विदिते च परस्परानुरागे समागमोपायचिन्तोचितं व्यवहारमुत्सृज्य
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy