Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 372
________________ ३६४ काव्यमाला। अत्र स्त्रीहृदयानां क्रूरत्वादिकं लोकेऽप्रसिद्धमेवोत्तरत्वेनोक्तम् । यथा वा ‘स ग्राम्यः स विदग्धसंसदि सदा गच्छत्यपातेयत ___ तं च स्प्रष्टुमपि स्मरस्य विशिखा मुग्धे विगानोत्सुकाः । यः किं मध्विति नाधरं तव कथं हेमेति न त्वद्वपुः कीदृनाम सुधेति पृच्छति गिरं दत्तं न तेनोत्तरम् ॥' अत्र किं मध्वित्यादि प्रश्नस्याधरादि उत्तरमप्रसिद्धमेवेति निबद्धम् । ननु प्रश्नपरिसंख्यातोऽस्य किं भेदकमिति चेत् , अत्राहुः-तत्रोत्तरस्य लोकप्रसिद्धविषयतया प्रयोजनान्तरविरहेणान्यव्यावृत्तावेव तात्पर्यम् , इह त्वप्रसिद्धविषयत्वादुत्तरस्य स्वार्थ एवेति ॥ इत्युत्तरम् । सूक्ष्मं निरूपयति प्रतिभातिशयाज्ज्ञातो यद्याकारेगितादर्थः। विशदीक्रियतेऽन्यस्मै तथैव तत्सूक्ष्ममित्युक्तम् ॥ १ ॥ आकारः संस्थानविशेषः, इङ्गितं नेत्रहस्तव्यङ्गयादिः । ततो यथाश्रुतग्राहिभिर्दुर्बोधमर्थवासनाद्विशेषपरिपाकाद्विज्ञाय दुर्लक्षप्रकारेणैव यदन्यस्मै तत्प्रकाशः क्रियते तत्सूक्ष्ममित्यर्थः । आद्यं यथा'संवाहणसुहरसतोसिएण देन्तेण तुह करे लक्खम् । चरणेन विक्कमाइत्तचरिअं अणुसिक्खि तिस्सा ॥' अत्र नायकहस्तद्वये लाक्षारससंयोगं दृष्ट्वा द्वित्तलाख्यसुरतमभिज्ञाय तच्छेषेण चरणस्य विक्रमादित्यसाम्यमभिधाय नायिकया नायकाय तत्प्रकाशनं कृतम् । १. 'संवाहनसुखरसतोषितेन ददता तव करे लाक्षाम् । चरणेन विक्रमादित्यचरितमनुशिक्षितं तस्याः ॥' [गाथा• ५।६४]

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436