Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 418
________________ ४१० काव्यमाला। सोऽपि द्वयोर्यथा'सिन्दूरद्युतिमु(र)क्तमूर्ध्नि निभृतस्कन्धावधिश्यामिके व्योमान्तःस्पृशि सिन्धुरेऽस्य समरारम्भोद्भुरे धावति । जानीमो नु यदि प्रदोषतिमिरव्यामिश्रसंध्याधियै___ वास्तं यान्ति समस्तराजकभुजात्तेजःसहस्रांशवः ॥ अत्र हस्तितिमिरसंवलितसंध्यात्वप्रकारकभ्रान्तिरभिमता । तत्र सिन्दूरजन्यमूर्धाशावच्छिन्नरक्तत्वविशेषणे तद्गुणालंकारमुपजीव्य भ्रान्तिमानुन्मिषति । अतस्तस्यानुग्राहकत्वं भ्रान्तिमतश्चानुग्राह्यत्वमिति संकरः । 'तेजः सहस्रांशवः-' इति रूपकं तु प्रसिद्धसाधर्म्यापेक्ष्यमेवेति न कस्यचिदनुग्राह्यत्वम् । यद्वा भ्रमस्यास्तां तद्धेतुत्वाभिधानभ्रान्तिमत्काव्यलिङ्गसंकरः । बहूनां यथा वा'जाने युष्मत्प्रयाणे क्षितितिलक रजोयोगदोषादशेषा दिग्योषाः स्त्रान्ति सद्यस्त्वदरिनृपवधूनेत्रनीरापगासु । संगम्य त्वत्प्रतापैः सममुषसि दधौ दोहदं देवता सा प्राची प्रातः प्रसूते यदियमुरुमहत्खण्डमार्तण्डबिम्बम् ॥' अत्र रजोयोगेति श्लेषः, दिग्योषा इति रूपकम्, जाने इत्युत्प्रेक्षा, दिशां नेत्राम्बुसंयोगावर्तकस्ना(त्राम्बुसंयोगार्तवस्त्रा)नत्वप्रकारकसंभावनाविरह इत्यर्थात् । प्रतापे नायकव्यवहारारोपात्समासोक्तिः, दोहदवत्त्वहेतूक्त्या प्रातरित्यादिना वाक्यार्थहेतुकं काव्यलिङ्गम् । तत्र रूपकं श्लेषाङ्गम् , दिशां स्त्रीत्वारोपं विना रजोयोगेत्यत्राविरूपद्वितीयार्थप्रतिपत्तिविरहात् । श्लेषेण च स्नानोत्प्रेक्षा निर्वहति, आर्तवबोधाभावे वारिसंबन्धे स्नानत्वप्रकारिकायाः संभावनाया अनुपपत्तेः । एवं दिशां स्त्रीत्वारोपः प्रतापस्य नायकव्यवहारविषयप्रतीतिरूपसमासोक्तिसमुत्थापकः, न हि नायिकासंगमकर्तृत्वभिन्नः प्रतापनायकयोः कश्चित्साधर्म्यविशेषः प्रसिद्धः । एवं काव्यलिङ्गमपि तदुत्थाप्यमेव दिशां स्त्रीत्वं विना गर्भजनकतायाः प्र. १. 'प्रसिद्ध साधर्म्यमपेक्ष्य मेव' ख.

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436