Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
४१९
अलंकारकौस्तुभः । अन्यैरुदीरितमलंकरणान्तरं य. .
काव्यप्रकाशकथितं तदनुप्रवेशात् । संक्षेपतो बहुनिबन्धविभावनेना
लंकारजातमिह चारु मया न्यरूपि ॥ विश्वेश्वरेण मननाचलेन साहित्यसिन्धुतः कृष्टः । पुरुषोत्तमहृदयगतः स्फुरत्वलंकारकौस्तुभः सुचिरम् ॥ वैधेयैर्यदि किंचिदत्र रभसादुद्भाव्यते दूषणं
तेनाधातुरपारमार्थिकतया काचिन्न शक्या क्षतिः । विद्वद्भिः पुनरुच्यते यदि च तत्स्यात्तेन शोभा परा
संतापोऽपि विभावयत्यतिशयं कार्तस्वरस्यानले ॥ इति श्रीलक्ष्मीधरसूनुविश्वेश्वरपण्डितकृतोऽलंकारकौस्तुभः संपूर्णः ।

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436