Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
पृष्ठे।
काव्यमाला। विषयः ।
कारिकाः। पर्याय:
- एकमनेकमनेकैकस्मिन्क्रमतोऽस्ति चेत्स पर्यायः। अनुमानम्
अनुमानं व्याप्यबलाध्यापकधीर्धर्मिनिष्ठा स्यात् ॥ ४६ ॥ परिकरः
साभिप्रायविशेषणविन्यासे परिकरः प्रोक्तः। व्याजोक्तिः
व्याजोक्तिविशदीभवदर्थस्यापह्नुतिर्मिषतः ॥ ४७ ॥ परिसंख्या
पृष्टमपृष्टं चोक्तं यद्यङ्गचं वापि वाच्यं वा ।
फलतीतरव्यपोहं परिसंख्या सा तु संख्याता ॥ ४८ ॥ कारणमाला
कारणमाला पूर्वे पूर्व कार्ये यथोत्तरं हेतौ । अन्योन्यम्
अन्योन्यं वस्तूनां परस्परोत्कर्षहेतुत्वे ॥ ४९ ॥ उत्तरम्
उत्तरमात्रात्प्रश्नोन्नयने स्यादुत्तरं नाम ।
प्रश्ने लोकाविदितोत्तरस्य तच्चासकृत्प्रोक्तौ ॥ ५० ॥ सूक्ष्मम्
प्रतिभातिशयाज्ज्ञातो यद्याकारेगितादर्थः ।
विशदीक्रियतेऽन्यस्मै तथैव तत्सूक्ष्ममित्युक्तम् ॥ ११ ॥ सार:
सारस्तु पूर्वपूर्वादुत्कर्षिण्युत्तरोत्तरे प्रोक्ते । असंगतिः
___३६६ हेतुव्यधिकरणं स्यात्कार्यं चेत्सा त्वसंगतिः प्रोक्ता ॥ १२ ॥ समाधिः
भवति समाधिः सुकरे हेत्वन्तरसमवधानतः कार्ये ।। समम्
अन्योन्यसंगमाहौँ संबध्येते समं तत्स्यात् ॥ ५३ ॥
३७२

Page Navigation
1 ... 432 433 434 435 436