Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 432
________________ काव्यमाला। २८५ विषयः। कारिकाः । पृष्ठे । स्याजन्यजनकपौर्वापर्यत्यागश्च सा त्वतिशयोक्तिः । प्रतिवस्तूपमा सादृश्यपर्यवसिते यस्मिन्वाक्यद्वये धर्मः ॥ ३० ॥ एकोऽपि द्विरुपात्तस्तां प्रतिवस्तूपमामाहुः । दृष्टान्तः साधारणस्य साम्यप्रतियोग्यनुयोगिनोर्यत्र ॥ ३१ ॥ निर्देशः स्याद्विम्बप्रतिबिम्बतया स दृष्टान्तः । दीपकम् २९० प्रकृताप्रकृतानां यद्येकान्वयितास्ति दीपकं तत्स्यात् ॥ ३२ ॥ यत्रैकमेव कारकमन्वयमेति क्रियासु बढीषु । माला तु पूर्वपूर्वे विध्यन्तरेणोत्तरान्वयिनि ॥ ३३ ॥ तुल्ययोगिता २९५ प्रकृतानां तादृक्त्वे भिन्नानां वापि तुल्ययोगित्वे ।। व्यतिरेकः २९७ उभयोः साम्यप्रोक्तौ विशेष उपमेयगो व्यतीरेकः ॥ ३४ ॥ हानिप्रकर्षहेत्वोरुक्तौ त्रेधा च तदनुक्तौ । शब्दार्थाक्षेपोत्थे साम्ये श्लेषे च दिग्युगमितः सः ॥ ३५ ॥ आक्षेपः ३०७ इष्टस्याप्यभिधातुं योऽर्थस्य विशेषबोधाय । स्वयमेव प्रतिषेधः स वक्ष्यमाणोक्तविषय आक्षेपः ॥ ३१ ॥ विभावना ३११ हेतुं विनापि कार्य यत्रोक्तं स्याद्विभावना सा तु । विशेषोक्ति: हेतौ सत्यपि कार्यानुत्पत्तिः स्याद्विशेषोक्तिः ॥ ३७॥ १. 'चतुर्विंशतिसंख्यः' इति व्याख्यानुरोधेन 'दृग्युगमितः' इति पाठो भवेत्, स पाठो गणितशास्त्रसंकेतानभिज्ञत्वं सूचयति. दिक्शब्दस्य द्वित्वकाचकत्वाभावाद्दशसमानोऽर्थकत्वाच्च. दृक्शब्दस्य द्विशब्दपर्यायत्वेऽपि 'अङ्कानां वामतो गतिः' इति गणकसमयेन द्विचत्वारिंशत्संख्याबोधकत्वापत्तिः.

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436