Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
अलंकारकौस्तुभः ।
एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ अत्र शृङ्गारो बीभत्सस्याङ्गं पूर्वरसापेक्षया गुणीभावः मुख्यरसापेक्षया ध्वनित्वमेव । एवमन्यत्रापि द्रष्टव्यम् ॥
'वक्राणि पञ्च कुचयोः प्रतिबिम्बितानि दृष्ट्वा दशाननसमागमनभ्रमेण । भूयोऽपि शैलपरिवृत्तिभयेन गाढ
मालिङ्गितो गिरिजया गिरिशः पुनातु || ' 'गुञ्जामालामुरसि रुचिरैः कञ्चकं भूर्जपत्रै
र्बाले भाले कलय तिलकं धातुघाताद्रवेण । इत्थं वैरिश्चितिपवनिता वाजचन्द्र क्षितीन्द्रोर्वारं वारं शबरसदृशः सादरं शिक्षयन्ति ॥' अत्र शबरीनिष्ठवैरिस्त्रीविषयकभावः कविनिष्ठराजविषयकभावः कविनिष्ठराजविषयकरतिरूपभावस्येति प्रेयोऽलंकारः ।
तृतीयो यथा मम -
'देव त्वत्परिपन्थिपार्थिमसमालोकैकसत्तात्मनां कान्तारेषु पुलिन्दराजनिवहप्राणप्रियाणामपि । तेषामेव तथावरोधनवधूलावण्यमुत्पश्यतां तेषां चापि परस्परं कथमहो जातानुरागक्षतिः ॥' अत्र शबरीनिष्ठवैरिराजविषयकः शबरीनिष्ठवैरिस्त्रीविषयकश्च रसाभासः
कविनिष्ठराजविषयकभावस्य ।
५३
'माणिक्यमण्डनरुचिप्रसरत्प्ररोहैरुद्भावयन्त इव रागविशेषमन्तः । सामन्तभूमिपतयश्चरणारविन्दे
नीराजयन्ति तव राजकुलाधिराज ॥'
४१७

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436